पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ पाथिकृतीटिस्थानीय पूर्णाहुतिप्रयोगः | यजमानः– विहाराइहिराचम्य गार्हपत्यस्य पश्चाइर्मेध्यासीनो दर्भान्धारयमाणः पल्या सह संकल्पयेत् । ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं पाथिकृतीष्टिस्थाने पूर्णाहुतिं १५८ होष्यामि । - अस्यां पूर्णाहुत्यामध्वर्युं त्वामहं दृणे । अध्वर्युः – तृतोऽस्मि कर्म करिष्यामि । - यजमानः – अस्यां पूर्णाहुत्यां ब्रह्माणं त्वामहं वृणे । ब्रह्मा-वृतोऽस्मि कर्म करिष्यामि । अध्वर्युः–अग्नीन्परिस्तीर्य ब्रह्माणं : यजमानं चाऽऽहवनीयस्य दक्षिणत उपत्रेश्य पत्नीं च गार्हपत्यस्य दक्षिणत उपवेश्य गार्हपत्स्योत्तरतो दर्भान्स तीर्य स्रुवं जुहूमाज्यस्थाली प्रोक्षणी चाऽऽसाद्य प्रोक्षणी पात्रमुत्तानं कृत्वा समावप्रच्छिन्नायौ प्रादेशमात्रौ दर्भों गृहीत्वा दर्भयोत्रिस्य मध्ये तृणं वा काष्ठं कृत्वा हित्वा पवित्रे कृत्वा ते पवित्रे प्रोक्षण्यां निधा- याप आसिच्य तूष्णीं त्रिरुत्पूय पात्राण्युत्तानानि कृत्वा त्रिः प्रोक्ष्य गार्हपत्य आज्यं विलाप्य पञ्त्रिान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य तृष्णीनुत्पूय ते पवित्रे गार्हपत्ये प्रक्षिप्य दर्भैः स्रुक्स्स्रुवौ संमृज्य स्थाल स्रुस्रुवौ च गृहीत्वाऽऽहवनीयस्य पश्चात् कुशेपुपसाद्याऽऽहवनी• यमिध्मैः प्रज्ञाल्य स्रुवेण चतुर्गृहीतं गृहीत्वा दक्षिणं जान्याच्य यजमानेनान्वारब्धे अग्नये पथिकृते स्वाहा । यजमान:- अग्नये पथिकृत इदं न मम | इति व्यक्त्वाऽऽचम्य अनया पूर्णाहुत्या भगवानग्निरूपपरमेश्वरः श्रीयताम् । इति पूर्णाहुतिप्रयोगः |

  • अग्निहोत्रार्थ प्रणीतेष्वग्निषु वक्ष्यमाणनिमित्तेष्वन्यतमे निमित्ते प्राप्ते तस्मिन्नेवाऽऽहवनीये

पूर्णाहुतिं जुहुयात् । १ अग्नीनां शम्यापरासदेशातिक्रमणम् | २ अन्याग्निषु यजनम् । ३ अस्याग्निष्वन्यस्य यजनम् | ४ अग्निना व्यवायः । ५ चक्रीवच्छ्वपुरुषैर्व्यवायः । अध्वनि यजमानमरणम् । एतेषु निमित्तेषु चक्रीबच्छ्वपुरुपैर ग्निहोत्र उपसन्ने व्यवाये पूर्णाहुतिः । एतनिमित्तं यदा प्राप्नोति तदा पूर्णाहुनिः । इति ।