पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० अग्निहोत्रचन्द्रिका | सोऽये वरुणायाष्टाकपाल पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वं नो अग्ने बरुणस्य विद्वान्स त्वं नो अग्नेऽवमो भवोतीत्याहुतिं वाऽऽहवनीये जुहुयादग्नये वरुणाय स्वाहेति सा तत्र प्रायश्चित्तिः ॥ इति | सा० भा० -आहिताग्नेः स्नानमन्तरेणाग्निहोमे वरुणगुणकोऽग्निः पुरोड शदेवता । चतुस्त्रिंशे प्रश्नोत्तरे दर्शयति- तदाहुर्य आहिताग्निर्यदि सूतकानं मानीयात्का तत्र प्रायश्चित्तिारीत सोऽग्नये तन्तुमतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये तन्तुं तन्वन्रजसो भानुमन्विाक्षानहो न ह्यतनोत सोम्या इत्याहुतिं बाऽऽहवनीये जुहुयादमये सन्तुमते स्वाहेति सा तत्र मायश्चित्तिः । इति । सा० भा० – आहिताग्नेः सूतकान्नप्राशने तन्तुमद्गुणकोऽग्निर्देवता । पञ्चत्रिंशे प्रश्नोत्तरे दर्शयति- - . तदाहुर्य आहिताग्निजींबे मृतशब्दं श्रुत्वा का तत्र प्रायश्चित्तिरिति सोऽग्नये सुरभिमतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अनिता न्यसदद्य- जयान्साध्वीमकर्देववीतिं नो अग्रेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये सुरभिमते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । 6 - सा० भा०— आहिताग्निः स्वस्मिञ्जीवत्येव स्वकीयमरणशब्दं यदा द्वेषिमुखाच्छृणुया- सदानीं सुरभिमद्गुणयुक्तोऽनिर्देवता । षट्त्रिंशे प्रश्नोत्तरे दर्शयति— तदाहुर्य आहिताग्नियस्य भार्या गौर्वा यमौ जनयेत्का तत्र प्रायश्चित्तिरिति सोऽनये मरुत्वते त्रयोदशकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेवेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० मा० - आहिताग्निर्योऽस्ति तस्येत्यस्मिन्नर्थे यस्येतिशब्दः प्रयुक्तः । तस्याऽऽहिता- नेर्भार्या वा तद्गृहावस्थिता गौ यमावपत्यद्वयं सह जनयेत्तदानीं मरुत्वद्गुणयुक्तोऽग्निर्दे- वता | एतद्ब्राह्मणोक्तं प्रायश्चित्तं सूत्रोक्त प्रायश्चित्तेन सह विकल्पते । पूर्णाहुतिप्रयोगस्तु अग्रे निर्दिष्टरीत्याऽऽकलनीयः । इष्टिपक्षमनुष्ठातॄणां याज्यापुरानुवाक्या लिख्यन्ते । अन्यः