पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | त्रयोविंशे प्रश्नोत्तरे दर्शयति- तदा हुर्यस्याग्नयः शवाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये शुचयेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अभिः शुचिव्रततम उदग्रे शुचयस्तवेत्याहुतिं वाऽऽहवनीये जुहुयादग्नये शुचये स्वाहेति सा तत्र माय- चित्तिः । इति । सा० भा० - प्रेतदहनाय प्रवृत्तोऽग्निः शवाग्निस्तत्संसर्गे पुरोडाशस्य शुचिगुणयु क्लोऽग्निर्देवता । अन्यत्पूर्ववद्व्याख्येयम् । चतुर्विशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्याग्नय आरण्येनाग्निना संदरन्का तत्र प्रायश्चित्तिारीत समे बाssरोपयेदरणी बोल्मुकं वा मोक्षयेद्यद्याहवनीयाद्यदि गाईपत्यायाद न शक्नुयात्सोऽग्नये संवर्गायाष्टाकपालं पुरोळाशं निर्वपेत्तस्योक्ते याज्यानुवाक्ये आहुतिं वाऽऽहबनीये जुहुयादये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः ॥ ७ ॥ इति । सा० भा० -- दाबाग्निररण्यादागत्याग्निहोत्रशाला दहन्नाइवनयादीन्यदा सभ्य- ग्दहति तदानीं तद्दहनात्पूर्वमेवाग्नीनरणी द्वयोररण्योः सह समारोपयेदेव । तदशक्तौ गार्हपत्याहवनीयादुल्मुकं मोक्षयेत् । सहसोल्मुकमादाय परितो गच्छेत् । समारोपणं बोस्मुकमोचनं वेति पक्षद्वयस्याग्निदाहत्वरया यदा न शक्तिस्तदा संवर्गगुणयुक्तोऽग्निः पुरोडाशदेवता । तदीययाज्यानुवाक्ये च पूर्वमेवाभिहिते । अष्टाविंशे प्रश्नोत्तरे दर्शयति-- तदाहुर्यस्य सर्व एवामय उपशाम्येरन्का तत्र प्रायश्चित्तिरिति सोऽप्रये तपस्वते जनद्वते पावकवतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये आयाहि तपसा जनेष्वा नो याहि तपसा जनेष्वित्याहुतिं वाऽऽहवनीये जुहुया- दग्नये तपस्वते जनद्वते पावकवते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० भा० – आहवनीयगार्हपत्यदक्षिणाग्नीनां सर्वेषामुपशान्तौ तपस्वज्जनद्वत्पाव- क्लबद्गुणत्रययुक्तोऽग्निः पुरोडाशदेवता । त्रयस्त्रिंशे प्रश्नोत्तरे दर्शयति तदाहुर्य आहिताग्निर्यादि प्रातरस्नातोऽग्निहोत्रं जुहुयात्का तत्र प्रायश्चित्तिारैति