पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | विविचयेऽष्टाकपालंपुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये स्वर्णवस्तोरुपसा- मरोचि त्वामग्ने मानुषीरीळते विश इत्याहुति वाऽऽहवनीये जुहुयादग्नये विवि- चये स्वाहेति सा तत्र प्रायचित्तिः । इति । १४८ - सा० भा०— आहवनीयगार्हपत्यदक्षिणाग्नीनां सर्वेषां परस्परसंसर्गे सति विविचि- गुणयुक्तोऽग्निः पुरोडाशदेवता । अन्यत्पूर्ववयाख्येयम् । विंशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्याग्नयोऽन्यैरग्निभिः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽनये क्षामवतेऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अक्रन्ददग्निस्तनयन्निव औौरधा यथा नः पितरः परास इत्याहुतिं वाऽऽहवनीये जुहुयादमये क्षामवते स्वाहेति सा तत्र प्रायश्चित्तिः ॥ ६ ॥ इति । सा० मा० - यस्याग्निहोत्रिण: संबन्धिन आहवनीयाद्यभ्नयोऽन्यदीयैरावनी यादि- भिकिकाग्निभिर्वा संसृज्येरंस्तस्य प्रायश्चित्ती ये पुरोडाशे क्षामवगुणयुक्तोऽग्निर्देवता । अन्यत्पूर्ववद्व्याख्येयम् । एकविंशे प्रश्नोत्तरे दर्शयति- तदाहुर्य॑स्याग्नयो ग्राम्येणाग्निना संदरन्का तत्र प्रायश्चित्तरिति सोऽनये संवर्गायाष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये कुवित्सु नो गविष्ट- ये मा नो अस्मिन्महाधन इत्याहुतिं वाऽऽहवनीये जुहुयादमये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० मा० - ग्राम्योऽग्निर्महानसादिगतः । स कदाचित्प्रमादेन प्रवृद्धो ग्रामगतानि गृहाणि दहन्नग्निहोत्रशालागताना हवनीयादीनानीन्सम्यग्दहति तदानीं प्रायश्चित्तस्य पुरोडा- शस्य संवर्गगुणयुक्तोऽग्निर्देवता । अन्यत्पूर्ववत् । द्वाविंशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्याग्नयो दिव्येनाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नयेऽ- प्सुमतेऽष्टाकलं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अप्स्वरने सघिष्टव मयो दधे मेधिर: पूतदक्ष इत्याहुतिं वाऽऽहवनीये जुहुयादs सुमते स्वाहेति सा तत्र प्रायश्चित्तिः ॥ इति । सा० मा० - दिव्याग्निवैद्युतः । अशनिपाते सति तदीयेनाग्निनाऽऽहवनीयादीनां संसर्गे प्रायश्चित्तपुरोडाशस्याप्सुमानग्निर्देवता | अन्यत्पूर्ववत