पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ब्यन्ति ' इति । गार्हपत्यार्थमः प्रमथनं कर्तव्यमिति तृतीयः पक्षः । तदानीं विद्यमान आहचनीये तद्विरोधिनोऽग्न्यन्तरस्य मथनाद्यजमानस्य शत्रुमुवादयेत् । पुनराधानं कर्तुं विद्यमानमाहवनीयमनुगमयेदुपशमयेदिति चतुर्थः पक्षः । तस्मिन्पक्षे विद्यमानस्य विना- शनात्प्राणो यजमानं परित्यजेत् । आहवनयिगतं भस्मसहितं सर्वमध्यग्निं कस्मिंश्चित्पात्रे प्रक्षिप्य नीत्वा गार्हपत्यस्थाने प्रक्षिप्यानन्तरं ततो गार्हपत्यप्राश्चमाहवनीयमुद्धरेदिति पञ्चमः पक्षः । अस्मिन्पक्षे दोपाभावात्व प्रायश्चित्तर्भवति । सप्तदशे प्रश्ने,त्तरे दर्शयति तदाहुर्यस्याग्नावग्निमुद्धरेयुः का तत्र प्रायश्चित्तिरिति स यद्यनुपश्येदुदूय पूर्व- मपरं निदध्याद्यद्य ( इय ) नानुपश्येत्सोऽग्नयेऽग्निवतेऽष्टाकपालं पुरोळाशं निर्व- पेत्तस्य याज्यानुवाक्ये अग्निनाऽग्निः समिध्यते त्वं ह्यग्ने अभिनेत्याहुतिं वाऽऽह वनीये जुहुयादग्नयेऽग्निवते स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० भा० - सायंप्रातराहवीयेऽग्नौ स्थित एव सति पुनरपि गार्हपत्याग्नि य उद्धरेयुस्तदानीं मुद्धतस्याग्नेः प्रक्षेपात्पूर्वमेव विद्यमानस्याग्नेर्देर्शने तं पूर्व विद्यमानमग्निमुह्य तस्मद।हवनीयस्थानादुद्धृत्य तस्मिन्स्थाने पुनरपरमिदानीमानीतमग्नि निदध्यात् । यद्यदि तु * विद्यमानं नानुपश्येत्तदानीमानीतमग्नि तत्र प्रक्षष्य पश्चादग्निद्वयमवगत्याग्निवतेऽग्नयें. देवतायै पुरोडाशं निरुप्य तस्यैते याज्यानुवाक्ये कुर्यात् । अग्निनाऽग्निरिति पुरोनुवाक्या । त्वं ह्यग्ने अम्निनेति याज्या | सोऽयमेकः पक्षः | दर्विहोमवद्याज्यानुवाक्ये परित्यज्याग्न येऽग्निवते स्वाहेति मन्त्रेणाऽऽहवनीय आज्यं जुहुयादिति द्वितीयः पक्षः । अष्टादशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्य गार्हपत्याहवनीयों मिथः संसृज्येयातां का तत्र मायश्चित्तिरिति सोऽग्नये वीतयेऽष्टाकपाळं पुरोळाशं निर्वषेत्तस्य याज्यानुवाक्ये अग्न आयाहि वीतये यो अग्निं देववीतय इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये वीतये स्वाहेति सा तत्र प्रायश्चित्तिः । इति । सा० भा० - अग्न्युद्धरणादूर्ध्न व्यवस्थितयोराहवनीयगार्हपत्ययोः सतोर्यदि गार्हपत्य गतोऽङ्गार आहवनीये प्रमादात्पतेदाहवनीयगतो वा गार्हपत्ये पतेत्सोऽयं. मिथः संसर्गः || तत्र प्रायश्चित्तार्थस्य पुरोडाशस्य वीतिगुणयुक्तोऽग्निर्देवता । अन्यत्पूर्ववयाख्येयम् । एकोनविंशे प्रश्नोत्तरे दर्शयति- तदाहुर्यस्य सर्व एवाग्नयो मिथः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये

  • मूलस्थद्यत्यव्ययार्थप्रदर्शकस्तुशब्दः ।