पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ‘स्खलनं साकर्त्येन द्रव्यपतनं अंशः । पुनरग्निहोत्रस्थाल्या द्रव्यं ग्रहीतुं सोऽध्वर्युर्योद पश्चिमामुखी निवृत्तो भवेत्तदानीं स्वर्गप्राप्तं यजमानं तस्माल्लोकादावर्तयेत् । अतो निवृत्ति - मकृत्वा स्स्वलनभ्रंशदेश एवोपविष्टायास्मा अध्वर्यवे स्थालीगतमग्निहोत्रद्रव्यशेषमन्ये पुरुषा आहरेयुस्तस्य द्रव्यस्य स्वीकारेणाध्वर्युर्यथोनीती स्यात्तथा जुहुयात् । उन्नीतमुन्नयनं स्थालीगतस्य द्रव्यस्याग्निहोत्रहवण्यां चतुर्वारं प्रक्षेपश्चतुरुन्नयतीति श्रुतत्वात् | उन्नयनादि- संस्कारपूर्वकं जुहुयादित्यर्थः । पञ्चदशे प्रश्नोत्तरे दर्शयति- तदादुरथ यदि स्रुग्भिद्येत का तत्र प्रायश्चित्तिरित्यन्यां स्रुचमाहृत्य जुहुया - दथैनां स्रुचं भिन्नामाहवनीयेऽभ्यादध्यात्माग्दण्डां प्रत्यकपुष्करां सा तत्र प्राय: चित्तिः । इति । . सा० भा० - स्रुगग्निहोत्रहवणी तद्भेदे स्रुगन्तरेण हुत्वा भिन्नां स्रुचमाहवनीये प्रक्षि पेत् । तदानीं तदीयो दण्डः प्राच्यामवस्थितस्तदीयं पुष्करं बिलं प्रतीच्यामवस्थितं यथा भवति तथा प्रक्षिपेत् । षोड़शे प्रश्नोत्तरे दर्शयति - - तदाहुर्यस्याऽऽहवनीये हाग्निर्विद्येताथ गार्हपत्य उपशाम्येत्का तत्र मायश्चि- चिरिति स यदि प्राञ्चमुद्धरेत्माऽऽयतनाच्च्यवेत यत्प्रत्यञ्चमसुरवद्यज्ञं तन्वीत य॒न्मन्थेद्भ्रातृव्यं यजमानस्य जनयेद्यदनुगमयेत्प्राणो यजमानं जह्यात्सर्वमेवैनं सह भस्मानं समोप्य गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत्सा तत्र मायचित्तिः ।। ५ ।। इति । सा० भा० – प्रतिदिनमाहवनी याग्निर्होमोर्ध्वमुपशाम्यति । गार्हपत्याग्निस्तु सर्वदा धार्यते । तस्माद्गार्हपत्यात्तत्तद्धोमकाल आहवनीयार्थमग्निं विहरेदित्येषोऽनुष्ठानक्रमः । एवं सति यदि कदाचिदाहवनीयस्य स्थानेऽग्निरनुपशान्तो विद्येन तदानी गार्हपत्यश्चोपशाम्येत् । तत्र तस्य वैकल्यस्य परिहाराय पक्षाः पञ्चविधाः संभवन्ति । विद्यमानमाहवनीयं गार्ह- पत्यतया संभाव्य ततोऽपेि पूर्वदेश आवहनीयं कर्तुं तस्मात्पूर्वसिद्धाहवनीयात्प्राश्चमग्नि- मुद्धरेदिति प्रथमः पक्ष: । तस्मिन्पक्षे यजमान आयतनात्स्वकीयस्थानात्प्रच्यवेताऽऽह- वनीयस्थानात्प्रच्युतत्वात् । अथ गार्हपयार्थं पूर्वसिद्धादा हवनीयात्प्रत्यञ्चमग्निमुद्धरेदिति द्वितीयः पक्षः । तस्मिन्दितीयप यज्ञ एनोडमुरयज्ञसमानः स्यात् । असुरयज्ञश्च शाखा- न्तरे तानसुरान्प्रकृत्यैवमाम्नायते –'त आहवनीयमग्र आदवीत । अय गार्हपत्यम् । अथान्वाहार्यपचनम् । ' इति । तदीयदोषोऽपि तत्रैवाऽऽम्नातः ' भद्रा भूवा परा भवि +