पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | तं दर्शयति- दिवं तृतीयं देवान्यज्ञोऽगात्ततो मा द्रविणमाष्टान्तरिक्षं तृतीयं पितॄन्यज्ञोऽगा- ततो मा द्रविणमाष्ट पृथिवीं तृतीयं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमाष्ट। इति । - सा० भा० - अस्य स्कन्नस्य विष्यन्दितस्य वा पयसस्तृतीयमंशस्वरूपं दिवं स्वर्ग- लोकमगात्प्राप्नोतु । तेन यज्ञोऽपि देवान्प्राप्नोतु । प्रापणाद्वैकल्यपरिहारे सति मामग्निहो- त्रिणं द्रविणमाष्ट धनं प्राप्नोतु । तथैवापरं तृतीयं द्रव्यांशस्त्ररूपमन्तरिक्षमगात् । तेन यज्ञोऽपि पितॄन्प्राप्नोतु । ततः प्रापणान्मां वनं प्राप्नोतु । पुनरव्यपरं तृतीयं द्रव्यांशस्वरूपं पृथिवीमगात् । तेन यज्ञोऽपि मनुष्यानगात् । ततस्तदुभयप्रापगान्मां द्रविणं धनमाष्ट प्राप्नोतु । मन्त्रान्तरजपं विधत्ते- ययो रोजसा स्कभिता रजांसीति वैष्णुवारुणीचं जपति विष्णुर्वे यज्ञस्य यद्दुरिष्टं पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै | इति । सा० भा०-ययोरोजसेव्यायसूत्रे पठिता | तस्याश्चतुर्थपदे विष्णू अगन्त्ररुणा पूर्वहूताविति श्रुतवादियं विष्णुवरुणदेवताका यज्ञस्य यहुरिष्टमङ्गबैंकल्पं तथ्मयित्वा विष्णुः पाति । यज्ञस्य यत्स्विष्टं यथाशास्त्रमनुष्ठितमङ्गं तद्वरुणः पाति । फलनतिषेधनिवारणं तत्प्रतिपालनम् । तस्मादयं जपस्तयोरुभयोर्दुरिष्टस्त्रिष्ट योर्यथोक्तप्रकारेण शान्त्यर्थं संपद्यते । उत्तरवाक्यमुपसंहरति - - सा तत्र प्रायश्चित्तिः । इति । चतुर्दशे प्रश्नोत्तरे दर्शयति तदाहुर्यस्याग्निहोत्रमधिश्रितं माडुदायन्स्खलते वाऽपि वा भ्रंशने का तत्र प्रायश्चित्तिरिति स यद्युपनिवर्तयेत्स्वर्गाल्लो काद्य जमानमावर्तत्रैवास्मा उपवि ष्टायैतमग्निहोत्रपरीशेषमाहरेयुस्तस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र माय- चित्तिः । इति । सा० मा० - अग्निहोत्रद्रव्यं गर्हप येऽधिश्रितं पाकादुर्धमादाय प्राङ्मुख आहवनीयं प्रत्युदायन्नु॒द्गच्छन्नध्वर्युर्थदा भवति तदानीं तद्व्यं स्खलते यद्वा भ्रंशते । बिन्दुपतनं १ ययोरोजसा स्कमिता रजांसि वीर्येभिवरतमा शविष्ठा | या पत्येते अप्रतीता सहोभिर्विष्णू अगन्त्ररुमा पूर्वहूतौ । ( आश्व० श्र० स० ५ / २० ) १३