पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ अग्निहोत्रचन्द्रिका | उत्थापनानन्तरकर्तव्यं दर्शयति --- अथास्या उद्पात्रमूधसि च मुखे चोपगृह्णीयादथैना ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिः । इति । सा० भा० > -- अस्या अग्निहोत्र्या ऊबसि उदकपात्रग्रहणं नाम जलस्योत्क्षेपणं मुखे गृहीत्वा जलं पाययित्वा तादृझ्या ब्राह्मणाय दानं यदस्ति सा तत्र वैकल्ये प्रायश्चित्तिरव- गन्तव्या | अथ दोहनकाले ध्वनिकरणे प्रायश्चित्तं विधत्ते-- यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां द्द वा एषा यजमानस्य प्रतिख्याय वाश्यते तामन्त्रमप्यादयेच्छान्त्यै शान्तिर्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिः । इति । सा० भा० - - वाश्येत हम्भा (हुम्ब ) रवं कुर्वीत तदानीमेवाग्निहोत्री स्वकीयामशनाय क्षुधां यजमानस्य प्रतिख्याय प्रख्यापनार्थं वाश्यते ध्वनि करोति । तस्मात्तामग्निहोत्री वाश्यमानामन्नमप्यादयेत् । अपिशब्दात्तृणादिकमपि । तच्च भक्षणं क्षुधाशान्त्यै संपद्यते । अन्नं शान्तिहेतुरिति प्रसिद्धम् । सूयवसादित्यादिर्मन्त्रः | हेऽग्निहोत्री भगवती पूज्या वं सूयवसाद्भूयाः । सुष्ठु यवसं तृणं सूयवसं तदत्ति भक्षयतीति सूयवसात् । तादृशी भवेति मन्त्रार्थः । मन्त्रेणान्नमादयेदिति यदस्ति सैव तत्र ध्वनौ प्रायश्चित्तिर्दृष्टव्या | दुह्यमानस्य क्षीरस्याग्निहोत्र्या: स्थानचलनेन भूमौ पतने प्रायश्चित्तं विधत्ते - यस्याग्निहोत्र्युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेत् । इति । सा० भा० – स्पन्देत किंचिच्चलेत् । सा चलन्ती यदि तत्र भूमौ स्कन्दयेदीपत्क्षीरं पातयेत्तक्षीरं हस्तेन स्पृष्ट्वा मन्त्रं जपेत् । तं मन्त्रं दर्शयति - यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः | पयो गृहेषु पयो अघ्न्यायां पयो वत्सेषु पयो अस्तु तन्मयीति | इति । सा० भा०—अथेदानीं यदुग्धं क्षीरं पृथिवीमसृप्त प्राप्नोत् । यच्चौषधीः पतितं तृणजातमत्य सृपदतिशयेन प्रामोत् । यदपि तत्क्षीरं विन्दुरूपमापो भूमिष्ठं जलं प्राप्नोत् ।