पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १४१ वासोवत्सयोः स्त्रादिम्ना प्रयोजनमस्ति । अतोऽभिघारण निवृत्तिः । ( १० । ३ । ३८ ) । इत्याग्रयणमीमांसा | अथाग्निहोत्रम यश्चित्तविधायक मैतन्यत्राह्मणं सभाष्यम् । अथाग्निहोत्रे बैकल्पनिमित्तं प्रश्नपूर्वकं प्रायश्चित्तं विधीयते – यस्याग्निहोत्र्युपावसृष्टा दुधमानोपविशेत्का तत्र मायचित्तिरिति तामनिम- न्त्रयेत । इति । - सा० भा० – अग्निहोत्रार्थं संप.दिता गौरी | सा चे.प.वसृष्टा दोहनार्थं वन्सेन संयोजिता । ऊर्ध्वं दुयमाना सती दोहनमध्ये यद्यप विशेत्तदानी शास्त्रीयस्य दोहनस्य विन ष्टत्वाद्यस्य यजमानस्य तत्राग्निहोत्र्युपवेशने प्रायश्चित्तरपेक्षिता सा च कीडशीति प्रश्नः । तामग्निहोत्रीं वक्ष्यमाणेन मन्त्रेणाभिमन्त्रयेतेति प्रायश्चित्तविधिः । तत्र मन्त्रं दर्शयति --- यस्माद्भीषा निषीदसि ततो वो अभयं कृषि पशुत्रः सर्वान्गोपाय नमो रुद्राय मी इति । इति । सा० भा० – हेऽग्निहोत्र त्वं यस्माद्विरोविनः शङ्कयनान्मनसा स्वर्यमणाद्यान• देर्भीमा भयेन निमीदस्युपविशसि ततो भयहेतोः सकाशात्रोऽस्माकमभयं कृषि कुरु । तथा नोऽस्माकं सर्वान्पशून्गोपाय रक्ष महळुणे तेचनसमर्थाय रुद्राय पशुस्वामिने नमोऽस्तु । इतिशब्दो मन्त्रसमःम्त्यर्थः । अभिमन्त्रणादुर्ध्वं तस्या अग्निहोत्र्या मन्त्रान्तरेणोत्थापनं विधत्ते-- तामुत्थापयेत् । इति । सा० भा० - तत्मिनुत्थापने मन्त्रनाह - उदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भाग मित्राय वरुणाय चेति । इति । सा० भा० --- अदितिरदीना देवी देवता रूपाऽग्निहोत्र्युदस्थादस्थितवत्युत्थाय च यज्ञ- पतौ यजमान आयुरवात्संपादितवती । कीदृश्यग्निहोत्री | इन्द्र मित्रवरुणानामपेक्षितं हृदि भगं कृण्णती संपादयन्ती | इतिशब्दो मन्त्रसमाप्त्यर्थः ।