पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १४३ आप इति द्वितीयार्थे प्रथमा । तत्सर्वमस्मदीयेषु गृहेष्वघ्न्यायामस्मदीयायां धेन्वां बसेष्व- स्मदीयेषु मयि मदुदरे वाऽस्तु तिष्ठतु | पृथगन्वयार्थ पयःशब्दावृत्तिः । इतिशब्दो मन्त्र- समाप्त्यर्थः । उक्तप्रायश्चित्तादृर्ध्वं होमं विधत्ते--- तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यद्यलं होमाय स्यात् इति । सा० भा० – तत्र दोहनपात्रे यत्क्षीरं भूमौ पतित्वा परिशिष्टं स्यात्तयदि होमायालं पर्याप्तं भवेत्तदानीं तेन जुहुयात् । C अपर्याप्ताबुपायान्तरमाह-- यद्यु वै सर्वे सिक्तं स्यादथान्यामाहूय तां दुग्ध्या तेन जुहुयादा त्वेन श्रद्धायै होतव्यं सा तत्र प्रायश्चित्तिः । इति । सा० भा० -- यधु वै यदि च सर्वं दुह्यमानं क्षीरं सिक्तं भूमौ पतितं स्यात्तदानी- मन्यां कांचिद्गामाहूयाऽऽनीय तां दुग्ध्या तीयेन क्षीरेण जुहुयात् । यद्यन्याऽपि न लभेत तदानीमप्यग्निहोत्रं न परित्याज्यम् । किंवा श्रद्धायै होतव्यम् । आङोऽत्राभिविधिरर्थः । आ श्रद्धायाः श्रद्धासहितं सर्ववस्तुजातं होतव्यं होमयोग्यम् । अयमर्थः – दधियवाग्वा- दीनां मध्ये येन केनापि द्रव्येण होतव्यम् । सर्वालाभे स्वन्ततः श्रद्धामपि जुहुयात् । अहं श्रद्धां जुहोमीति संकल्प श्रद्धाहो | अग्निहोत्रस्य नित्यत्वात्सर्वात्मना परित्यागो न युक्त इति । वेदनपूर्वकमनुष्ठानं प्रशंसति - सर्वे वा अस्य बर्हिष्यं सर्वे परिगृही। य एवं विद्वानग्निहोत्रं जुहोति ।। २७ ।। इति । सा० भा० - विदित्वाऽनुष्ठातुरस्य पुरुषस्य सर्वनपि बर्हिष्यं यज्ञयोग्यम् । अतः सर्वं द्रव्यमनेन होमार्थं परिगृहीतं भवति । एकादशे प्रश्नोत्तरे दर्शयति - तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वाऽपहरेयुर्वा का तत्र प्रायचित्तिरित्या- ज्यस्यैनानि यथादेवतं परिकल्प्य तयाऽऽज्यहविषेष्ट्या यजेतातोऽन्यामिष्टिमनु- लवणां तन्वीत यज्ञो यज्ञस्य प्रायश्चित्तिः ॥ ४ ॥ इति । सा० भा० – पुरोडाशदधिपय रूपाणि हवींपि सर्वाणत्युच्यन्ते | आज्यस्य संबन्धी- न्येतानि त्रीणि हवींपि तत्तद्देवतामननिक्रम्य तदनुसारेण परिकल्प्याऽऽज्यह विर्युक्तया