पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | आग्रयणमकृत्वा नवान्नप्राशनजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वानरेष्टिस्थाने पूर्णाहुतिं होष्यामि । इति संकल्प्याध्वर्युं वृणुयात् । अस्मिन्पूर्णाहुतिहोमेऽध्वर्युं त्वामहं वृणे । - अध्वर्युः— वृतोऽस्मि कर्म करिष्यामीत्युक्या गर्हपत्यादाहवनीय प्रणीय ( नात्र दक्षिणाग्निप्रणयनम् ) पवित्रे कृत्वा लौकिकमाज्य जहां चतुर्गृहीतं गृहीत्वा अग्नये वैश्वानराय स्वाहा । इत्याहवनीये जुहुयात् । - अग्नये वैश्वानररायेदं न मन । १३९ यजमानः-- आचम्यानेन पूर्णाहुतिहोमेन श्रीभगवान विपरनेश्वर प्रीयताम् । तत आहवनीया से रपवर्गं कृत्वाऽऽचामेत् । इत्याग्रयणप्रायश्चित्तम् । अथाऽऽग्रवणमीमांस | तैत्तिरीयब्राह्मणे तावदाजसूयप्रकरण आग्रयणं समानातम, सेत तत्र दक्षिणात्वेन वत्स वाससी श्रूयेते- प्रथमजो वत्सो दक्षिणा वासो दक्षिणा ॥ इति । प्रकृतिवृद्धिकृतिः कर्तव्येव्यतिदेशतः प्राकृतो विध्यन्तोऽप्वामयणेष्ट्यां प्राप्नोति । तत्रान्वाहार्यस्य विध्यन्तःपातित्वात् । तथा च प्रकृतौ " यदन्वाहार्यमाहरति " आहर तिरत्र दानार्थकः । एवं च साक्षाद्विकृतावुक्तं दक्षिणाद्रव्यं प्राकृतेनातिदेशप्राप्तेन समुच्ची - यत इति समुच्चय एवाभ्युपगन्तव्यः । इममेव समुच्चयपक्षं सूत्रयामास बौधायन:- अन्वाहार्यमासाद्य प्रथमजं वत्सं ददाति ( बौ० श्रौ० सू० ३ | १२ | १३ ) सोऽयं समुच्चयः कैश्चन सूत्रकारैर्न सृत्रितस्तदर्थं संशय उपपद्यते समुचयोऽनुष्ठेयो न वा । तदपाकरणायावश्यं मीमांसया भवितव्यमिति भगवाञ्जमि.निर्देशमलक्षणे सूत्रयांचभूव । तदेवात्र निर्दिशाम :- बासो वत्सं च सामान्यात् । ( पू० मी० १० । ३ । ३४ ) । V.com