पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ अग्निहोत्र चन्द्रिका | एवं ब्रह्माऽऽग्रीधो यजमानश्च तत आदक्षिणाकालं प्रकृत्या समानं भवति । यजमानः – दक्षिणाकाले वत्सं वासश्चान्तर्वेदि संस्थापयेत् । -

  • ब्रह्मा - ब्रह्मणी ब्रह्मणी स्थो ब्रह्मणे वां मा मा हिसिष्टमहुते मा शिवे

भवतम् । इत्यभिमृरोत् । यजमानः – ब्रघ्न पिन्वस्त्रेत्यारम्यामुष्मलोक इत्यन्तमुच्चार्य - सहस्रधारे उत्से अक्षीयमाणे ते दध्नतुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां वत्सवासोभ्यामतितराणि मृत्युम् । इत्यभिमृश्येमे वो वःलवाससी प्रतिगृह्णमिति दद्यात् । अध्वर्यनभूतय ऋत्विजः - देवस्य + त्वा सवितुः प्रसवेऽश्विनोर्वाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि | राज त्वा वरुणो नयतु देवि दक्षिणे रुद्राय गाम् ॥ अग्रे प्रकृतिबद्वतः गृहीत्वा पुनर्देव याद देवि दक्षिण इत्यन्तमुक्त्वाग्ना स्त्वा कृन्त- न्नतःपसख्या तन्त्रतं वरूत्रयस्त्वा वयसो नाय वसः । तेनामृतत्वमश्पामत्यादिप्रकृतिमन्त्रै- र्वासो गृह्णरन् । ततः प्रकृय़ा समानम् । यजमानः - संयज्ञपतिराशिषेति मन्त्रेण पुराणभागं प्राश्य भद्रान्नः श्रेय इति मन्त्रेणै न्द्र.नं वैश्वदेव चैककृत्य म्याग्निः प्रथमः प्रश्नलिति मन्त्रेण श्यामाकं प्राश्याऽऽ- चःमेत् । तत एककपाले वासनेऽध्वर्युवजनानयोः- यद्धर्मे कपालमु चिन्वन्ति वेधसः | पूष्णस्तदपि व्रत इन्द्रवायू विमुञ्चता- मिति जपे विशेषः | त्रिष्णुक्रमादि यज्ञशंचमवर्जं ब्राह्मणतर्पणान्तं प्राकृतं कुर्यात् । भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदेशं चतुष्पदे || इति प्राश्य : ऽचम्य । अमोऽसि प्राण तदृतं ब्रबीम्यमाऽसे सर्वानसि प्रविष्टः । स भे जरां रोगमपनुद्य शरीरादमा म एधि मामृथाम इन्द्र ॥ इति नाभिमालम्याप उपस्पृशेत् ।

  • आश्वलायनीयब्रह्मणो वत्सवाससोः स्पर्शो नास्ति । + आश्वलायनीयब्रह्मा दक्षिणा-

ग्रहणं प्रकृतिवत्कुर्यात् ।