पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १२९ वर्षासु श्यामार्केयजत शरदि त्रीहिभिर्वसन्ते यवैर्यथर्तु वेणुयवैरिति विज्ञा- यते ॥ ५६ ॥ यदि नानातन्त्रा श्यामाकेष्टिस्तदाऽनया वर्षासु यजेत । ततः शरदि केवलैव्रहिभिः । समानतन्त्रत्वे तूभयैः शरदि । ततो वसन्ते यवैः । वेणुयवैस्तु यथर्तु यजेत । ते ह्यनि- यतकालनिष्पत्तयो यस्मिन्नेवर्तौ निष्पद्यन्ते तस्मिन्नेव यजेतेत्यर्थः ॥ ५६ ॥ इति रुद्रभट्टकृतसूत्रदीपिकया सहितमापस्तम्बीयाग्रयणसूत्रम् | अथाऽऽपस्तम्बसूत्रानुसारि आग्रयणप्रयोगः | यजमानः—शरद्यमात्रास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वाऽऽचम्प दर्भेष्वा- सीनो दर्भान्धारयमाणः पवित्रपाणिः पन्या सह व्रीहिश्यामाकाभ्यां तन्त्रेणाऽऽग्रयणेन यक्ष्ये । इति प्रथमाग्रयणे संकल्पयेत् । द्वितीयाग्रयणे तु आग्रयणेन यक्ष्ये । इति संकल्पयेत् । विद्युदसि० । ऋत्विग्वरणम् | अद्य यज्ञाय | आग्रयणीय हविः । इति विशेषः । अध्वर्युः – आमावस्यं तन्त्रं कुर्यात् । सप्तदश सामिधेनीः | वेदं कृत्वा वेदिम् । यस्य कस्यचिद्यज्ञियकाष्ठस्योपवेषम् | अलंकारपरिस्तरणे | यजमानः— देवा देवेष्विति जपेत् । अध्वर्युः – पात्रासादनं विशेषयेत् । * एकविंशतिः कपालानि । द्वे स्थाल्यौ स्फ्येन सः द्वंद्वमासादयेत् । + शूर्पत्रयम् । एकमुलुखलमेकं मुसलम् | © पात्रीत्रयम् । आज्य- स्थाल्या सहाऽऽशयपात्रम् | प्रणीताप्रणयनेन सहोत्पवनपात्रम् | प्रातर्दोहपात्रान्वाहार्य - स्थालीबर्जमितराणि प्राकृतानि पाय व 1 इति गृत्रियमादत्ते । निरस्तमिति तन्त्रेण निरसनम् । निर्वपणकाले ‘ अग्नये जुष्टं निर्वप'मि ' इति पुराणानां श्रीहीणाम् ।

  • आश्वलायनसूत्राध्यायिनो विशेषं तत्र तत्र टिप्पण्यां प्रदर्शयाम: | इतरत्सर्वमाप-

स्तम्बेन समानम् | त्रयोदश कपालानि |+शूर्पद्वयम् | पात्रीद्वयम् । 1. बेपाय वामिति ! अग्निदेवतैवाऽऽश्वलायनयानां न सूत्रिता तस्मात्सर्वत्राग्निदेवताकपुराणनीहितन्त्रं तेषां नास्ति ।