पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ अग्निहोत्रचन्द्रिका | अपि वाऽग्निहोत्रीं श्रीहिस्तम्बं यवस्तम्बं वा ग्रासयित्वा तस्याः पयसा सायं तर्जुहुयात् ॥ ३५ ॥ व्र ह्य.ग्रयणवले सर्व.हिकं त्रीस्तम्वं यत्रणक.ले यवस्तत्रं च प्रातरेव गां ग्रास चिया -क्षणमपीनायास्तस्याः पया सायंजु दरेधुः प्रातश्च । तत्र व्रीहियवनियमा- च्छ्यामाकांनां निवृत्तिः ॥ ३५ ॥ अपि वा नवानां यवाग्वा सायं मा र्जुहुयात् ॥ ३६ ॥ पूर्वेणायं पक्षो व्याख्यातस्तुल्य विकल्पश्च सर्वत्र ॥ ३६॥ अपि वा नवानां गर्हपत्ये स्थालीपाकं श्रपयित्वऽऽहवनीये जुहुयादाग्रयण- देवताभ्यः स्त्रिष्टकृच्चतुर्थाभ्यः । ३७ ॥ स्विष्टकृञ्चतुर्थाभ्य इति वचनाच्छ्यामाकदेवतायाः सेमस्य निवृत्तिः । स्थालीपाक इति बचनाच्च पावणप्रकृतिको यजनानकर्तृकश्च | अथ यदा संवत्सरे पवमानहविषामु त्कर्षस्तदाऽयमेत्र पक्षः सामर्थ्यात् ॥ ३७ ॥ अपि वा नवानां चतुःशराबमो नं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् ||३८|| पुरुषाशनपर्याप्तग्राहिणा महता शरावेण चतुर्वारं निरुप्तमोदनं लौकिकेऽसौ पक्त्वा चतसृणामासां देवतःनामर्थे चतुरो ब्राह्मणाम्भोजयेत् । अथ यदोत्सृष्ट्याग्निर्यजभानस्तदाऽय- मेव पक्षः सामर्थ्यात् ॥ २८ ॥ एवं यवैर्यजेत ॥ ३९ ॥ वसन्ते यत्रानामग्रपाकेणाप्येत्रं श्रीह्म, ग्रयणस्य सानुकल्पस्याऽऽवृता यजेत । तत्र त्वाह भारद्वाजो न यवानामाग्रयणं विद्यत इत्यै डुलोमिरिति । तथाऽपि वाऽक्रिया यवेष्वित्या - वलायनः ॥ ३९ ॥ तत्राऽऽग्नेयश्यामाकौ न भवतः ॥ ४० ॥ तत्र यवाग्रयणे पुराणाग्नेयश्यामाकचरू न भवतः ॥ ४० ॥ य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । एतमु त्यं मधुना संयुतं यवं सरस्वत्या अधिमनावचठ्ठेषुः । इन्द्र आसीत्सरिपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यजमानभागं मानाति । सर्वेषां वा भक्षाणां मन्त्रवतां प्रत्याम्नाय: स्यात् ॥ ४१ ॥ पूर्ववद्व्याख्या ।। ४१ ॥