पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १२३ विति । तत्र शूपकत्वे प्रदेशभेदेन निर्वापायौ विवेकपरापवने तु सामर्थ्यात्पात्रान्तरे न्चैकैकस्य बीजस्य भवतः । तथा उपद्यधिवापः पर्यायेण पात्रीकृष्णाजिनयोः प्रस्कन्दनं संत्रापश्च प्रदेशभेदेनेत्यादि द्रष्टव्यम् | बीजसंस्कारेषु संभवतां तन्त्रःत्रमितरेपामावृत्तिश्च यथा- यथमनुसंधातव्ये । तत्राऽऽह भारद्वाजः - आ तन्त्रिभावादकैकं बीजमपवर्जयेदिति ॥ १४ ॥ सर्वेषु हविष्कृदवहननमन्त्रः ॥ १५ ॥ यदा पहननार्थो हविष्कृन्मन्त्रस्त दलका च बीजे बीज अवर्तते । यदाऽऽहानार्थ- स्तदाऽप्युलुखलैकत्य आवर्तते भिन्नत्वात् । यथा वक्ष्यति हविष्कृदधिरोनुवाक्याम- नोतस्याऽऽत्रू तिर्भिन्नकालेष्विति । भिन्नकालता च तत्र कर्मणः काण्डानुसमयेनैवानुष्ठेयत्वात् । तथा च भारद्वाजोऽपि वैकस्मिनुखले पूर्व परमपहन्यात्तत्राऽऽयपनप्रभृतयो विथेचनान्ता मन्त्रा बीजं बीजमभ्यार्तेरनिति | यदा तूलूखलभेदस्तदा न हविष्कृदाहानमावर्तते काल- ब्यवेतत्वःत्कालाव्यवा५श्च तत्र कर्मणा समानजातीयन्थायतः प्रवृत्तिसिद्धेः । तथा चैकै- कस्मिन्कृष्णाजिने ॠण्युलुखलान्यधिवर्तयतीति प्रकृत्य भारद्वाजः सर्वाणि हवष्योप्य हवि- ष्कृतमाह्वयति सर्वाण्यवहत्य पदुपले समाहन्त्यनुपूर्व सर्वाणि हवयुद्धपति परापुनाति विविनक्तीति ॥ १५ ॥ तुषोपवपनम् ।। १६ ।। तुषोपवपनमपि सर्वेषु बीजेषु भवत्युलखलाभेदे भेदे च सर्वेषां तुवाणां प्रतिपाद्यत्वात् । तत्र सर्वे तुषाः समावःव्यान्ततः प्रतिपादनीया विभुत्वात् । भारद्वाजश्चाऽऽह सर्वेषामन्तत - स्तुषानुपःपपतीति । प्रक्षालन निनयनमप्येतेनैव व्याख्यातम् ॥ १६ ॥ उत्तममोप्य वाचं विसृजते ॥ १७ ॥ हविष्कृदावृत्युक्तौ तूत्तमं बीजमोप्य यो हविष्कृत्तेन वाचं विसृजते न पूत्रेणेत्यर्थः । अथ पेषणादीनामपि पूर्ववत्तन्त्रावृत्तिभ्यां प्रवृत्तिः । चम्पुरोडाशधमाश्च यथायथं प्रत्ये- तव्याः ॥ १७ ॥ एषोऽन्येषां नानावीजानां समवेतानां कल्पः ॥ १८ ॥ अन्येषामप्येकस्मिंस्तन्त्रे समवेतानां नानाबीजानामेकमुलूवलं मुसलमित्यादिरेष एवं कल्पः प्रयोगः ॥ १८ ॥ अलंकरणकाल आज्येनैककपालमभिपूरयति ॥ १९ ॥ अथोद्वातनकाले पात्र्यां क्रोडं कृत्वा तत्र प्रतिष्ठापित मेककपालमलंकरणका लेऽलंकर • णमन्त्रेणाभि'यति । यथा स निमज्जत्याज्ये तथा कोडं पूरयतीत्यर्थः ॥ १९ ॥