पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ११९ अपि वा नैककपालं कुर्वीताऽऽज्येन द्यावापृथिवी यजेत ॥ २७ ॥ ये प्राचीनमेकाष्टकाया बत्सा जायन्ते तेषां प्रथमजं ददाति । वास: श्यामाके ॥ २८ ॥ भद्रान्नः श्रेयः समनैष्ट देवा इति यजमानभागं माश्नाति ॥ २९ ॥ सर्वेषां वा भक्षाणां मन्त्रवनां प्रत्यास्त्राय: स्यात् ॥ ३० ॥ अग्निः प्रथमः मानातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति श्यामा- कानाम् ॥ ३१ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ३२ ॥ अपि वाऽमावास्यायां पौर्णमास्यां वाऽऽग्रयणेष्टिमन्वायातयेत् ॥३३॥ अपि वाऽमावास्यां पौर्णमासीं वा नवर्यजेत ॥ ३४ ॥ अपि वाऽग्निहोत्रीं त्रीहिस्तम्बं यवस्तम्बं वा ग्रासयित्वा तस्याः पयसा सायं प्रातर्जुहुयात् ॥ ३५ ॥ अपि वा नवानां यवाग्वा सायं प्रातर्जुहुयात् ॥ ३६ ॥ अपि वा नवानां गार्हपत्ये स्थालीपाकं श्रपयित्वाऽऽहवनी ये जुहुयादाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यः ॥ ३७॥ अपि वा नवानां चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भो- जयेत् ॥ ३८ ॥ एवं यवैर्यजेत ॥ ३९ ॥ तत्राsऽग्नेयश्यामाकौ न भवतः ॥ ४० ॥ य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं ददाति । एतमु त्यं मधुना संयुतं यवं सरस्वत्या अधिमनावचठ्ठेषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः । इति यजमानभागं प्राश्नाति । सर्वेषां वा भक्षाणां मन्त्रवतां प्रत्याम्नायः स्यात् ॥ ४१ ॥ सिद्धमिष्टिः संतिष्ठते || ४२ ॥ यदि नानातन्त्रां श्यामाकेष्टिं कुर्वीत | श्यामाकानुद्धर्तवा इति संप्रेष्यति ॥ ४३ ॥ तस्याः सप्तदश सामिधेन्यः ॥ ४४ ॥ सन्तावाज्यभागौ विराजौ संयाज्ये ॥ ४५ ॥