पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ अग्निहोत्रचन्द्रिका | अथाऽऽपस्तम्बीयाग्रयण श्रौतसूत्राणि प्रारभ्यन्ते । नानिष्ट्वाऽऽग्रयणेनाऽऽहिताग्निर्नवस्याश्नीयात् ॥ १ ॥ व्रीहीणां यवानां श्यामाकानामित्यग्रपाकस्य यजेत ॥ २ ॥ अमावास्यायां पौर्णमास्यां वा ॥ ३ ॥ आमावास्यं तन्त्रम् ॥ ४॥ सप्तदश सामिधेन्यः ॥ ५॥ निर्वपणकाल आग्नेयमष्टाकपालं निर्वपति पुराणानां श्रीहीणाम् ॥ ६॥ यथा दान्तेनादान्तं संयुनक्ति तादृक्तदिति विज्ञायते ।। ७ । येन यज्ञेनेर्सेत्कुर्यादेव तत्राऽऽग्नेयमष्टाकपालमिति विज्ञायते ॥ ८ ॥ नवानामितराण्येन्द्रा द्वादशकपालमाग्नेन्द्रं वा वैश्वदेवं पयसि चरुं सौम्यं श्यामाकं चरुं द्यावापृथिव्यमेककपालम् ॥ ९ ॥ पुरस्तात्सौम्याद्यावापृथिव्यमेके समामनन्ति ॥ १० ॥ निरुमं हविरुपसन्नमप्रोक्षितं भवति । अथ पञ्चाज्यानीर्जुहोति शतायुधाय शतवीर्यायेति ॥ ११ ॥ पुरस्ताद्वा स्विष्टकृतः ॥ १२ ॥ प्रोक्षादि कर्म प्रतिपद्यते ॥ १३ ॥ एकमुलूखलं मुसलं प्रतिवीजं वा ॥ १४ ॥ सर्वेषु हविष्कृवहननमन्त्रः ॥ १५ ॥ तुषोपवपनम् । १६ ॥ उत्तममोप्य वाचं विसृजते ॥ १७ ॥ एषोऽन्येषां नानाबीजानां समवेतानां कल्पः ॥ १८ ॥ अलंकरणकाल आज्येनैककपालमभिपूरवति ॥ १९ ॥ आविः पृ (पृष्ठं वा कृत्वाऽऽसादयति || २० || मचरणकाल उद्धृत्य बर्हिषदं कृत्वा जुह्वामुपस्तीर्याऽऽ- धायाऽऽशयमन्वानीयाभिघार्योपांशु प्रचरति ॥ २१ ॥ सर्वहुतमपर्यावर्तयन्न प्रतिष्ठितं न हस्तेन जुहुयात् ॥ २२ ॥ यदि हुत: पर्यावर्तेत स्रुचोऽग्रेण कल्पयेत् ॥ २३ ॥ न पाणिना ॥ २४ ॥ वरे दचे कल्पयितव्यः २५ ॥ आधायाभिघार्य पुनर्हेतव्य इत्येके ॥ २६ ॥