पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | दे० भा० - आघाये सुकर्माण इत्यग्नीद्वयोर्याज्यानुवाक्ये इन्द्राग्योर्दष्टियामुक्ते । विश्वे देवासो ये के चेति विश्वेषां देवानाम् | मही द्यौः पृथिवी च नः प्रपूर्वजे इति द्यावा- पृथिव्योः । इति याज्यानुवाक्या: शेषं पौर्णमासेन ॥ १४ ॥ इति देवत्रातभाष्यम् । बृत्तिः~~इन्द्र।ग्न्योः सोमस्य चोक्ता याज्यानुबाक्याः॥ १४ ॥ इति वृतिः | इति देवत्रातभाष्यगार्ग्यनारायणवृत्तिभ्यां समेतमाग्रयणसूत्रम् | एवमाप्रयणसूत्रमाश्वलायनीयं यद्यप्यस्ति समान्नातं तथाऽपि न तावता समाम्नातेनेष्टिः कर्तुं सुशकाऽतश्चेष्ट्यर्थमवश्यमापस्तम्बसूत्रं शरणीकरणःयम् । भवितव्यं च प्रयोगेण प्रयोग शास्त्रानुसारिणाऽतस्तदर्थमंत्राऽऽपस्तम्ब सूत्र लिखन मप्रासङ्गिकं न भवेदेति सदस्यत्र रुद्रभट्टकृत- सूत्रदीपिकया सह प्रस्तावयामः । ततः परं यथाक्रममाप्रयणप्रयोगमन्त्रभाष्यादि लिखामः । तत्र स्वशाखोक्तानाग्रयणानुकल्पानवगन्तुमस्ति स्वप्रयोगशास्त्रापेक्षा | नवीनं चात्र देव- त्रातभाष्यं संगृहीतमिति स्वशाखीय सूत्र लिखनमपि सम्पगित्युत्पश्यामः ।