पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | विधिरन्यत्र भक्षे न प्राप्नोति । होतुरुक्तो विधिरण्यन्यस्य न प्राप्नोति । तस्मादतिदेशः क्रियते । इष्ट्यधिकारात्सर्वत्रग्रहणमग्निहोत्रादिष्वपि प्राप्त्यर्थमिळाया अधिकारादन्येष्वपि प्राशनेषु प्राप्त्यर्थं नवभोजन इष्टिर्भवति ॥ ११ ॥ वृत्तिः—– एतेन विधानेन सर्वभक्षेषु सर्वे भक्षिणः सर्वान्भक्षान्मक्षयेयुः । सर्वत्रवचनं प्रकरणादुत्कपार्थम् । नवभोजनवचनं लौकिकेऽपि नवभोजने प्रापणार्थम् । सर्वत्रवचना- प्रकरणादुत्कृष्टमपि नवभोजनवचनाल्लौकिक एव व्यवतिष्ठते । वैदिकेऽग्निहोत्रहोमे ‘“ नवानां सवनीयान् ” इत्यत्र च न प्राप्नुयात्तत्रापि प्रापणार्थं भक्षवचनम् ॥ ११ ॥ " अथ व्रीहियवानां धाय्ये विराजौं ॥ १२ ॥ ६० 9 भाष्यम् – अथ व्रीहियवानामाग्रयणं त्रीहिश्यामाकयवानामित्युक्तम् । तत्र श्यामाकेष्टिरुक्ता पूर्वे हि ते पच्यन्ते । अथ ब्रीहियवानामिष्टिर्वक्ष्यते । ब्रीहांणां यवानां च वक्ष्यमाणेष्टिर्भवति । शरदि ब्रोहीणां वसन्ते यवानां समानेष्टिर्घाय्ये अस्यामिष्टौ विराजौ धाय्ये संयाज्ये भवतः ॥ १२ ॥ - 66 वृत्तिः— अथानन्तरं त्रीहीणां यवानां चाऽऽग्रयणेष्टिरुच्यते । तत्र त्रीह्याग्रयणस्य काल उक्तः । वसन्तो यवाग्रयणस्य | तत्र हि तेषां प्रथमः पाक इति तन्त्रे विशेषाभा- बादुभयोः सहवचनं तयोर्धाय्ये विराजौ च भवतः | इतरत्पौर्णमासं सन्त्रं वैराजम् " इत्येतावतैबोक्तेऽपि तावन्मात्रबिकारसिद्धौ सत्यां धाय्याविराग्रहणं विकल्पेन वृधन्वतो- रपि प्रापणार्थम् ॥ १२ ॥ अग्नीन्द्राविन्द्राग्नी वा विश्वे देवाः सोमो यदि तत्र श्यामाको द्यावा: पृथिवी ॥ १३ ॥ दे० भाष्यम्-तस्याभिष्ट्यां देवताऽग्नीन्द्राविन्द्रासी वा विश्वे देवाः । विश्वे देवा द्वितीया सोमस्तृतीया देवता यदि तत्र श्यामाकश्चरुः समानतन्त्रो भवति द्यावापृथिवी च देवता चतुर्थी भवति समानतन्त्रपक्षे ( इन्द्राग्नी विश्वे देवाः सोमो द्यावापृथिवी ) नानात- न्त्रपक्षे तृतीया भवति (इन्द्राग्नी विश्वे देवा द्यावापृथिवी ) द्यावापृथिव्योरनन्तरे सौम्य- मित्येके ॥ १३ ॥ वृत्तिः—आद्ययोर्विकल्पेनैका देवता गृह्यते । यदि श्यामाकाग्रयणमस्यामेवेष्टौ समा- नतन्त्रेण क्रियते तदा सोमस्तृतीयो भवति ॥ १३ ॥ आघाये अग्निमिन्धते सुकर्माणः सुरुषो देवयन्तो विश्वे देवास आगत ये के वज्मा महिनो अहिमाया मही यौः पृथिवी च नः प्रपूर्वजे पितरा नव्यसीभि- रिति ॥ १४ ॥