पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ११५ सौम्यश्चरुर्न पुरोडाशः । चरुर्जीहिजः । इष्ट्यामेव चरुर्भवति नैकाग्निविधाने | अनाहिता- मेराप्रयणस्थालीपाक इति ॥ ८ ॥ - वृत्तिः--श्यामाकाग्रयणेष्ट्यां सोमदेवन्यश्चरुर्भवति । कालो वर्षर्तुः । शास्त्रान्तरे दर्शनात् ॥ ८ ॥ सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेळाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत् । प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय ॥ ९ ॥ दे० भाष्यम्-सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्येते याज्या- नुवाक्ये सोमस्य शेषं पौर्णमासेन । अवान्तरेळाया नित्यं जपं नित्यमन्त्रजपमिळे भागमि- त्युक्त्वा ततः सव्ये पाणौ तामवान्तरेळां कृत्वेतरेण दक्षिणेन पाणिना तामवान्तरेळामाभ- मर्शयेत् । प्रजापतये त्वेत्येतेन मन्त्रेण जपमुक्त्वेति सिद्धे नित्यवचनाद्यो यत्र नित्यो मन्त्र- स्तत्र तं जपित्वेति भवति । अग्निहोत्रहोमादिषु सर्वाधिकारादितरेणेत्युच्यते ॥ ९ ॥ - वृत्तिः— इतिकाराभ्याहारेण सूत्रच्छेदः । नित्यजपशब्देनेळे भागमिति मन्त्र उच्यते । तस्यानित्यत्वे सत्यपि नित्यवचनमेतेन भक्षिण इति विध्यतिदेशे तद्वर्जितस्य प्रापणा- र्थम् ॥ ९ ॥ भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पद इति माश्याऽऽचम्य नाभिमालभे- तामोऽसि प्राण तदृतं ब्रवीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगमपन्थ शरीरादमा म एघि मामृथाम इन्द्रेति ॥ १० ॥ दे० भाष्यम्—इतरेणैव तामवान्तरेळां प्राश्य तत्त आचम्य नाभिमालभेतामोऽसी- त्येनेन मन्त्रेण । अभिमर्शनानन्तरं नाभिमालभेतेत्यनुच्यमाने प्राशनं न प्राप्नोति तस्माप्राश्येत्युच्यते । सिद्धम्य प्राशनस्य पुनर लम्भादाचमनलोपे प्राप्त आचम्येत्यु- च्यते ॥ १० ॥ वृत्तिः– स्मृतिप्राप्तस्याऽऽचमनस्य विधानं यस्मिन्देश आचमनं कृतं तस्मिन्नेत्र देशे स्थितस्य नाभ्यालम्भनसिद्धयर्थम् ॥ १० ॥ एतेन भक्षिणो भक्षान्सर्वत्र नवभोजने ॥ ११ ॥ दे० भाष्यम् – एतेन होतुर्बिंधानेन भक्षिणो ब्रह्मादयः श्यामाकानिळाभक्षान्भक्ष- येयुः । सर्वत्राग्निहोत्रहोम एकाग्निविधाने च नवभोजने चान्नप्राशनेष्ववान्तरेळायामुक्तो