पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ह्यादिषु विपरिणतेषु यत्पयो भवतीति भवति । तत्र श्यामाकानामग्निहोत्रहोमो न भवति । श्यामाकेष्ट्यामित्यत्रेष्टिप्रहणाद्द्द्रोहियवानामेव भवति । अध्वर्यूणामप्युक्तम् “ नीहिस्तम्बं यवस्तम्बं वा " इति ॥ ४ ॥ वृत्तिः – अथाऽऽग्रयणेन यजेतेतीष्टिरेवाऽऽग्रयणशब्देनोक्ता | इदानीमिदमप्युच्यते । अग्निहोत्रोमार्था धेनुरग्निहोत्रीत्युच्यते । तां बीहिश्यामाकयवानामन्यतममाशयित्वा तस्याः पयसा सायंप्रातरनिहोत्रं जुहुयात् । इष्टि: प्रथमकलास्तदसंभवेऽयमनुकल्प इति द्वावे- बाऽऽग्रयणकल्पावत्रोच्येते ॥ ४ ॥ अपि वा क्रिया यवेषु ॥ ५ ॥ दे० भा० – आग्रयणस्यापि वा क्रियाऽक्रिया वा विकल्पः । यवेषु पक्षेषु क्रियाव चनाद्यवानामाग्रयणविकल्पः । अग्निहोत्रहो मेष्टिस्थालीपाकादि सर्वेषां पक्षेषु विकल्पः | अन्यथा यत्रेष्टिरित्युक्तेऽधिकारादमिहोत्रस्यैव विकल: स्यात् । यवानामिति वक्तव्ये यत्रे- ष्विति सप्तमीवचनाद्यवेषु निष्पन्नेष्विति वेणुयवेष्वपि विकल्पं दर्शयति कदाचिन्निष्प- यन्त इति निमित्तसप्तमी प्रयुज्यते । " वेणुयवेषु पक्केषु वेणुयवानुद्धर्तवा इति संप्रेष्यति " ( आप० श्रौ० सू० ६ । ३१ । ९ । ) ॥ ५ ॥ वृत्तिः——यवैराप्रयणस्य क्रिया वा भवेदक्रिया वेति विकल्पः ॥ ५ ॥ इष्टिस्तु राज्ञः || ६ || दे० भा० - - इष्टिरेव राज्ञां भवति । इष्टिरुत्तरे वक्ष्यते । तुशब्दोऽग्निहोत्रादिव्यावृ- त्यर्थः ॥ ६॥ वृत्तिः—त्रयाणां वर्णानामविशेषेण कलद्वये प्राप्ते राज्ञो विशेष उच्यत इष्टिरेव नान्य इति ॥ ६ ॥ सर्वेषां चैके ।। ७ ।। दे० भा० – सर्वेषां वर्णानां चैक इष्टिं मन्यन्तेऽग्निहोत्रहोममग्निहोत्रिणाम् । स्थाली- पाकं वा । इष्टिरेवान्येषाम् ॥ ७ ॥ वृत्तिः— सर्वेषामपि वर्णानामिष्टिरेवैत्येकॆ मन्यन्ते ॥ ७ ॥ - श्यामाकेष्ट्यां सौम्यश्वरुः ॥ ८ ॥ दे०भा० - – श्यामाकानामि.ष्टिविधि | अधिक रसूत्रमेतत् । इष्टयधिकां रेषु पुनरिष्टिग्रहणाच्छ्यामाकानामिष्टिरेत्र नान्येयामिति । सौम्यक्षरुः | सोमोऽस्य देवता