पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ११३ कृतानामेव स्यात् । अनिष्ट्वेति वक्तव्येऽग्निहोत्रग्रहण मिष्टपक्षप्रदर्शनार्थम् । अनिष्ट्वा प्राशने महान्दोषः श्रूयते तस्मान्सूत्रारम्भः । “ हरितयवशाकशमीधान्यानां नवानां फला- नामनिष्ठेऽपि प्राशने याथाकामी " ( आप० श्र० सु० ६ | ३१ । ७ । ) इत्युक्त- मन्येषाम् ॥ २ ॥ वृत्तिः--सस्यं नवनिष्पन्नं तन्नाश्नीयादाग्रयणेनानिष्ट्वा । यद्यग्रयणेनानिष्ठवतो नव- निष्पन्नेनाशनेन विना निर्वाहो न स्यात्तदा तेषां द्रव्याणां तत्कालनिष्पन्नेन सायंप्रातर- ग्निहोत्रं हु॒त्वाऽश्नीयात् । ततः काल आगत अग्रवणं कुर्यात् | अग्निहोत्रमहुत्वा नानी- यादितिवचनादाग्रयणेनानिष्ट्वाऽप्यग्निहोत्रं हुवातो न दोष इति गम्यते । सस्यग्रहणं व्रीह्याद्यन्यदपि यन्नवनिष्पन्नं तस्य सर्वस्य प्रतिषेधार्थम् ॥ २ ॥ यदा वर्षस्य तृप्तः स्यादथाऽऽग्रयणेन यजेत ॥ ३ ॥ दे० भा०. यदा वर्षस्य निष्पन्नेनेट्वेज्यायां प्राप्तायां यदा यस्मिन्काले वर्षस्य लोकस्तृप्तः स्यात्तृप्तिं प्राप्नोत्यलं दृष्ट्येति । अथ तदानीमैत्राऽऽग्रयणेन यजेत ॥ ३ ॥ वृत्तिः–यदा वर्षतृप्तिर्लोकस्य भवति तदाऽऽग्रयणेन यजेत । अनेन प्रकारेण श्रीह्या ग्रयणस्य शर काल उक्तो भवति ॥ ३ ॥ --- अपि हि देवा आहुस्तृप्तो नूनं वर्षस्याऽऽग्रयणेन हि यजत इति । अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा जुहुयात् ॥ ४ ॥ दे० भा०—–कस्माद्धेतोः । अपि हि देवा आहुरप्येवं किल देवता आहुस्तृप्तो लोको नूनं वर्षस्याऽऽग्रयणन यस्माद्यजत इति कस्माच्छरदि श्यामाकैवहिभिर्यजेत । अन्येषां तु “ वर्षासु श्यामाकैः शरदि ब्रीहिभिः ” । ( आप० श्रौ० सु० ६ | ३१ । १४ | ) इत्युक्तम् । व्रीहिभिरिष्ट्या ब्रीहिभिरेव यजेताऽऽयवेभ्यः " ( आप० श्री० सू० ६ । ३१ । १३ ) अग्निहोत्रं वोक्तं नाश्रीयादग्निहोत्रमहुवेतिः । तस्मान्न यवाग्वा- दिभिरग्निहोत्रं होतव्यं भवति । कामादृतेऽपि हि सर्वाणि नित्यानि काम्यानि चेसे- तस्मादथवा पयसा होम इत्येतस्मिन्पक्ष इदमुच्यते । अग्निहोत्री गौस्तां वैं नानादयित्वा तस्यां परिणतेषु घासेषु यत्पयस्तेन पयसा जुहुयात्सायंप्रातर्नियकल्पः । वर्षहोमे वेदं भबति । याशब्दो विकल्पार्थः । यवाग्वादिभिः पयसा वेति वचनात्सस्यभूतानेव । अन्ये- बामप्युक्तम्- “ अपि वाऽग्निहोत्री व्रीहिस्तम्बं यवस्तधं वा ग्रासयित्वा तस्याः पयसा सायंप्रानर्जुहुयात् " ( आप०००६ | ३०।१४। नम्या इति वचनाद्वी- }