पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | १०७ - आपत्त पितरो गर्भ कुमारं पुष्करस्त्रजम् | यथाऽयमरपा असत् ॥ १९ ॥ भाग्यम् – हे पितरो कुष्मत्प्रसादा कृतग्ण्डप्राशनेन पुष्करन्जं संपूर्णस्वर्णाद्यलंकृतं कुमारमेव गर्भमाधत्त यथाऽनी कुमार इह परलोडरपा अलं पातीयलंपा: कुलभूषणो यथा स्यात्तथाऽसन्स्यात् । कुलरक्षणाणलं भवेत्तथाऽऽवत्तेति वा । प्रजातन्तुं मः व्यवच्छेत्तीरितिशासनानुनरणेनेव कुलभूषणमिति यावत् ॥ १९ ॥ इति पिण्ड पितृयज्ञमन्त्रभाष्यम् | अथाऽऽग्रयणब्राह्मणं सभाष्यम् । अथाऽऽग्रयणप्रस्तावे यदुक्तं सूत्रकारेण .. निम्तं हविरुपसन्नमप्रीक्षितं भवत्यथ पञ्चा- ज्यानीर्जुहोति शतायुधाय शतवीर्यायेति" इति तदिदं विधत्ते ब्रह्मवादिनो बदन्ति यदर्थमासा मासा ऋतवः संवत्सर ओषधी: पचन्त्यथ कस्मादन्याभ्यो देवताभ्य आग्रयणं निरूप्यत इत्येता हि तदेवता उदजयन्यहतुभ्यो निर्वपेद्देवताभ्यः समदं दध्यादाग्रयणं निरुप्यैता आहुती- जुहोत्यर्धमासानेव मासानुतन्त्संवत्सरं श्रीणाति न देव- ताभ्यः समदं॑ दधाति । इति | [ तै० सं० ५ काण्डे पप्रा० ७ अनु० २ ] ब्रह्मवादिनः परस्परभेवं विचारयन्ति - अर्धमासमासर्तुसंवत्सररूपा देवता ओपधीनां परिपाकं संपादयन्ति । एवं सति ता देवता उपेक्ष्यान्याभ्य इन्द्राग्न्यादिभ्यो देवताभ्य आग्रयणाख्यं नृतनधान्यरूपं हविः कस्मात्कारणान्निरुप्यत इति । तत्राभिज्ञा एवमुत्तरमाहुः । यस्मादेता इन्द्राग्न्यादयो देवता इतरैदैवतैः सह समयं कृत्वा तत्र तत्रौषविविषय उत्क- र्पेण जयं प्राप्तास्तस्मादिन्द्र्ाग्न्यादिभ्यो निर्वापो युक्तः । एतच्च राजस्थप्रकरण आग्रय- णविधौ स्पष्टमाम्नातम् . देवा वा ओपधीष्वाजिमयुः । ता इन्द्राग्नी उद्यताम् इति । एवं सति जेतॄनिन्द्राग्न्यादीनुपेक्ष्य यद्यूतुमासादिदेवताभ्यो निर्वपेत्तदानीमेतासां तासां च देवतानां कलहं संपादयेत् एवं तपधिपरिपाकहेतॄनामृतुमासादिदेवतानां परितोष: कथमिति चेच्छ्यताम् । इन्द्राग्न्यादिम्य अग्रमणं निरुप्य शतायुधायेत्येता अञ्यान्याहुतीर्मासादिदेवताभ्यो जुहुयात् | तेनार्धमामादिदेवताः प्रीणयति । ततो देव- तानां कलहं च न करोति । यदपि सूत्रकारेणाऽऽग्रयणप्रस्तावे विहितम् “ भद्रान्नः श्रेयः समनैष्ट देवा इति यजभानभागं प्राश्नाति " इति तं विधि मन्त्रव्याख्यानरूपार्थवादेनोन्नपति-