पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | च मन्मभिः । पितरो यैः स्तोत्रैर्मन्यन्ते ते मन्मानस्तैस्ता दृशैः स्वोत्रैराह्वयामः ॥ १२ ॥ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे | ज्योक्च सूर्य दृशे ॥ १३ ॥ सा० भाष्यम् –आ त एनु : आगच्छतु मनः किमर्थं क्रत्वे ऋत ऋतुः संकल्पो यज्ञो वा । दक्षाय दक्षः संकल्पः समृद्धिसाहो वा ' स यदेव मनसा कामयत इदं मे स्थादिदं कुर्वीयेति स एव ऋतुरथ यदाऽस्मै तत्समृध्यते स दक्ष : ' इति श्रुतिः | जीवसे जीव. नाय । ज्योनिपातश्चिरवचनः । चिरं सूर्य दृशे द्रष्टुन् ॥ १३ ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं त्रातं सचेमहि ॥ १४ ॥ सा० भाग्यम् – हे पितरो भदनुज्ञया दैव्यो जनो देवसंबन्धी पुरुषो नोऽस्मभ्यं मनः पूर्वोक्तं चित्तं पुनर्भूयो ददातु प्रयच्छतु प्रेरयत्वित्यर्थः । तथा सत्यनुष्ठानं कृत्वा भवत्प्रसा- दाज्जीवं जीवनवन्तं शतं पुत्रपश्वादिकं गणं वयं सचेमहि सेवेमहि । सचतिः सेवनार्थः ॥ १४ ॥ परेनन पितरः सोम्यासो गम्भीरभिः पथिभिः पूर्विणेभिः । दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छत ॥ १५ ॥ भाष्यम् - हे सोम्याः पितरः पश्थिभिः परेतन परावृत्य गृहान्गच्छत । कीदृशैः पथिभिर्गम्भीरेभिः सुलभान्नतोयैः । पूर्विणेभिः पूर्वकृतैः प्रहतैः । किंचास्मभ्यामह भद्रं रथिं द्रव्यं सर्ववीरं सर्वं वीर्यवन्त्रियच्छत ददतेत्यर्थः ॥ १५ ॥ अग्ने तमग्राश्वं न स्तोमैः क्रतुं न भद्रं हृदि स्पृशम् । ऋथ्यामा त ओहै: ( ऋ० सं० ३ | ५ | १० ) ॥ १६ ॥ - सा० भाष्यम् – हेऽग्नेऽद्यःस्मिन्नहनि वयमृत्विगादयते - त्वदीयैः । ओहैरिन्द्रादिप्रापकैः स्तोभैः स्तोत्रसमूह्रैस्तं प्रसिद्धं स्वामृध्यामम् समर्धयामः । कीदृशं त्वामश्वं न वोढारमश्वमित्र तथा हबिपो बाहकं ऋतुं न कर्तारमित्रोपकर्तारमित्यर्थः । तथा भद्रं भजनीयं हृदिस्पृशं हृदयांगममतिशयेन प्रियमित्यर्थः ॥ १६ ॥ यदन्तरिक्षं पृथिवीमत द्यां यन्मातरं पितरं वा जिहिंसिन । अग्रिम तस्माइनसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेनसम् | १७ ॥ · भाष्यम् - पृथिव्यादी. कान्मनसा जिहिसिम हिनतुमिच्छेम सन्मातरं पितरं वा हिंसितुमिच्छेमेति यत्तस्मात्सर्वस्माइनसः पापागार्हपत्योऽग्नेर्मा मां प्रमुञ्चतु मामनेनसं सर्वपाप रहितं करोतु ॥ १७ ॥ वीरं मे दत्त पितरः ॥ १८ ॥ भाष्यम् - पितरः पितृपितामह पितामहा मेमवीरं वीरं पुत्रं दत्त ददत ॥ १८॥