पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोचन्द्रिका | अमीमदन्त पितरो यथाभागमापायीपत || ८ || भाष्यम् – पितरोऽमीमदन्त । यान्तिप्रति मादयध्वमिन्युक्तं ते पितरोऽमीमदग्न हृष्टाः । यथाभागमावृपायीषत । स्वं भागमनतिक्रम्य चुपवस्वी चक्रुः | लुङि रूपम् | स्वं भागं जरित्यर्थः ॥ ८ ॥ असावभ्यवासावव ॥ ९ ॥ भाष्यम् --असावित्यस्य स्थाने संयुद्धयन्तं नाम निर्दिश्य.भ्यङ्ग्वाभ्यञ्जनं कुरु । अभ्यञ्जनकरणं नाम नवनीतेन पिण्डलेपनमित्यर्थः । तद्वदेवानं कुरु ॥ ९ ॥ एतद्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युवम् ॥ १० ॥ भाष्यम् - - हे पितर एती युष्माकं वामोऽनोऽन्यद्धे पितरो भवदानकर्मणि मां मा युध्वं मा नियोजयध्वम् ॥ १० ॥ नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय | स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम ॥ ११ ॥ - भाष्यम् – हे पितरौ वो युष्माकं येडनं भुज्यमानं तस्मै नमोऽस्तु | एवं सर्वत्र योज्यम् | ऊर्ज ऊनाम रसः | शुष्मशब्दो बलत्राची | घरो मारणादिव्यापारः | जीयो देह|ध्यक्षः । रसो नामान्तर्गतो मधुरिमोच्यते । स्वधा तदीया स्त्री पिनरो हि स्वधाय प्रीतिं कुर्वन्ति । नमो वः पितरः । हे पितरौ यूयमेतस्मिलोके स्थितास्तेभ्यो युष्मभ्यं नमः । नम एता युष्माकम् । एतैतानि नमो नमांसि युष्माकं युष्मभ्यं वो युष्माकं जीवा अस्माकं जीवा इहास्मिँल्लाके जीवन्त एव स्याम भवेम ॥ ११ ॥ मनो न्याहुवामहे नाराशंसेन सोमेन | पितॄणां च मम्मभिः॥ १२ ॥ सा० भाष्यम् – नु क्षिप्रं मन आहुवामह आह्वयामः । पितृयज्ञानुष्ठानेन चित्तं पितृलोकं गतमिबाऽऽसीदत आहूयते । यद्वा मनो मनोभिमानिदैवतमा ्यामः । केन साधनेन सोमेन स्तोत्रेण । कथंभूतेन नाराशंसेन शंसः प्रशंसनं नराणां योग्यः शंसो नराशंसस्त- संबन्धी नाराशंसस्तेम | स्तोत्रं द्विविधं दैत्रं मानुषं च । यत्र देवाः स्तूयन्ते तदैवं यत्र च मनुष्याः प्रशस्यन्ते तम्मानुषप् | तथाविधेन स्तोत्रेणेत्युक्तं भवति । किं च पितॄणां

  • अञ्जनं नाम त्रैककुई किकुये

पदम् । यदि त्रैककुदं नाविगच्छेधेनै। केन चाअनेनाञ्जतेति बाजसनेयकम् ( आप० श्रौ० स् १० । ७ । २ । ३ )