पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ पिण्डपितृयज्ञमन्त्रभाष्यम् । ये रूपाणि प्रतिमुञ्चमाना असुरा: सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्मणुदात्वस्मात् ॥ १ ॥ भाष्यम् – ये पितृरूपाण्यात्मनि प्रतिमुञ्चमानाः | प्रतिपूर्वो मुञ्चतिर्बन्ध वर्तते । आत्मनि बघ्नन्तोऽसुराः सन्तो भवन्तः स्वधया पित्रयेणान्नेन हेतुभूतेनास्माभिरेतत्वादि तब्यमिते चरन्ति संचरन्ति । किं च परापुरः पराकान्ताः पुरः पर/पुरः शरीराणि महान्तीति निपुरो निकृष्टाः पुरो निपुरः सूक्ष्माणि शरीराणि ये भरन्ति बिभ्रति धारयन्ति । अग्निस्तानसुराँल्लोकात्स्थानात्प्रणुदातु प्रणुदतु प्रेरयत्वस्मात्पितृलोकात्प्रकर्त्रेणापसारयत्वि- त्यर्थः ॥ १ ॥ अपहता असुरा रक्षांसि वेदिषदः ॥ २ ॥ भाष्यम् –वेद्यां सीदन्ति वेदिषदस्तादृशा असुरा अपहता वेदिसकाशादपगताः । तथा रक्षांति वेद्या अपहतानि | अमुरत्वं रक्षत्वं चेतिजातिविशेषौ देवविरोधिनौ ॥ २ ॥ सोमाय पितृमते स्वधा नमः ॥ ३ ॥ भाष्यम् – पितृमान्पितृसंयुक्तस्तस्मै सोमनामकाय देवाय स्वधा हविर्दत्तम् ॥ ३ ॥ अग्नये कव्यवाहनाय स्वधा नमः ॥ ४ ॥ भाष्यम्- [– कवयः क्रान्तदर्शिनः पितरस्तेषां संबन्धि कव्यं हविस्तद्वोदुमधिकारो यस्यास्ति स कव्यवाहनस्तस्मा अग्नये स्वधा हविर्दत्तमस्तु ॥ ४ ॥ - . शुन्धन्तां पितरः | शुन्धन्तां पितामहाः | शुन्धन्तां प्रपितामहाः ॥ ५ ॥ भाष्यम् - पितृपितामहप्रपितामहाः शुद्धा भवन्त्यित्यर्थः ॥ ५ ॥ एतत्तेऽसौ ये च त्वामत्रानु ॥ ६ ॥ - भाग्यम् – असावित्यस्य स्थाने पितृपितामहप्रपितामहानां संबुद्धयन्तानि नामानि वक्तव्यानि । हे पितस्ते तुभ्यमेतत्पिडीकृतमन्नं दत्तं ये चान्येऽत्र स्वामनुवर्तन्ते तेभ्योऽ- ध्येतद्दत्तम् ॥ ६ ॥ अत्र पितरो मादयध्वं यथाभागमावृषायध्वम् ॥ ७ ॥ भाष्यम् – हे पितरो यूयमत्रास्मिन्बर्हिषि मादयध्वं हृष्टा भवत । ततो हविषि यथा- भागं स्वं स्वं भागमनतिक्रम्याऽऽवृषायध्यं समन्ताद्वृषवदाचरत । यथा वृपः स्वाभीष्टघासं प्राप्य तृप्तिपर्यन्तं स्त्री करोति तद्वत्स्वी कुरुत | आङपूर्वावशब्दात् ' कर्तुः क्यङ्सलो- प' ( पाe सू० ३ । १ । ११ ) इनि क्यङ् ततो लोट् ॥ ७ ॥