पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैनान्प्रवाहयेत् - - अग्निहोत्रचन्द्रिका | ओहैः । इति । परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः । दत्त्वायास्मभ्यं द्रविणेह भद्रं रथं च नः सर्ववीरं नियच्छत | इति । अग्नि प्रत्येयातू - अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदि स्पृशन् | ऋठ्या मा त १०३ गार्हपत्यं प्रत्येयात- यदन्तरिक्षं पृथिवीमु॒त द्यां यन्मातरं पितरं वा जिहिंसिम | अनिर्मातस्मादे- नसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेनसम् । इति । वीरं मे दत्त पितरः । इति पिण्डानां मध्यमं पिण्डमादाय पत्नी प्राशयेत् । आघत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथाऽयमरपा असत् । इति पत्न्येव मन्त्रं ब्रूयात् । इतरौ पिण्डावप्सु प्रक्षिपेत् । अतिप्रणीते वा प्रक्षिप्य दाहयेदित्यादि सूत्र एव स्पष्ठमुक्तं तद्वत्कृत्वा पात्राणां द्विवदुत्सर्गः । यद्येकमेबाबशिष्टं स्यात्तहिं द्वित्वसंपादनार्थं तृणेन सह तदुःसजेदिति । आचम्यानेन पिण्डपितृयज्ञाख्येन कृतेन कर्मणा परमेश्वरः प्रीयताम् । इति पिण्डपितृयज्ञप्रयोगः ।