पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महोत्रचन्द्रिका | शुन्धन्तां पितरः । शुन्धन्तां पितामहाः | शुन्धन्तां प्रपितामहाः । इति । तस्यां पिण्डान्निपूर्णाीया पर चीनपाणिः- एतत्ते पितः - शर्मन्ये च त्वामत्रानु । A एतत्ते पितामह - शर्मन्ये च त्वामत्रानु | - एतत्ते प्रपितामह – शर्मन्ये च त्वामत्रानु । एवं निपूताननुमन्त्रयेत | १०२ अत्र पितरो मादयध्वं यथाभागमावृषायध्वम् | इत्यनुमन्त्र्य सन्यांवृदुदङःबृत्य यथाशक्त्यप्राणन्नासित्वाऽभिपर्यावृत्य अमीमदन्त पितरो यथाभागमावृषायीपत | इत्यनुमन्त्र्य चरो: प्राणभक्षं भक्षयित्वा सुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः । इत्यपो निनीय - पितः – शर्मन्नभ्यङ्क्ष्व । पितामह - शर्मनभ्यश्च । प्रपितामह - शर्मन्नभ्यक्ष ! पितः - शर्मन्नक्ष्य | पितामह शर्मनइक्ष्व | प्रपितामह - शर्मन्न इत्यभ्यञ्जनाञ्जने दत्त्वा | एतद्द्वः पितरो वासो मा नोऽतोऽन्यत्पितरो युध्वम् । इति वासो दद्यादशमणीस्तुकां वा पश्चाशद्वर्षताया ऊर्ध्वं स्वं लोम | अथैनानुपतिष्ठत - नमो वः पितर इषे नमो वः पितर ऊर्जे नमो व पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितसे रसाय । स्वधा वः पितरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम । मनो न्वाहुवामहे नाराशंसेन सोमेन | पितॄणां च मन्मभिः । आत एतु मनः पुनः क्रत्वे दक्षाय जीवसे | ज्योक्च सूर्य दृशे । पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं व्रातं सचेमहि । १ समचित्यस्य पश्चात् तत्तनाम वक्तव्यम् यथा देवदत्तशर्मन, इति ।