पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ पिण्डपितृयज्ञप्रयोगः । आहिताग्निः-- अपराह्न आचम्य -- - १०१ ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ पिण्डपितृयज्ञं करिष्ये । स्वयोनितो दक्षिणाग्निम,नीय प्रज्वल्य दक्षिण | मेरे कोल्मुकं माग्दक्षिणा प्रणयेत् । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्मणुदात्वस्मात् । इत्यतिप्रणीय दक्षिणाग्न्यतिप्रणीतावुपसमाधायोभौ परिस्तीर्य दक्षिणामे: मागुदक्म- सगुदग्वैकैकशः पात्राणि सादयेत् । चरुस्थालिशूर्पस्फ्योलूखलमुसलस्रुवध्रुवकृष्णाजिनसकृदाच्छिन्नेध्ममेक्षण- कमण्डलून् । एत्रमासाद्य दक्षिणाग्नेर्दक्षिणतोऽग्निष्ठं शकटमारुह्य तत्रैव शूर्पे चरुस्थाली विधाय ब्रीहिभिः प्रपूर्य पूर्णां निमृज्य स्थाल्पास्यदेशाच्छूर्योपार ये पतन्ति तान्त्रीही परिसन्नाञ्श- कटे निधाय कृष्णाजिन उलूखलं कृत्वा स्थाल्यन्तर्गतान विविच्या विविच्य पत्न्यवहन्या- त्ततः सकृत्प्रक्षाल्य दक्षिणामौ श्रपयेत् । ततो दक्षिणाग्न्यतिप्रणीतयोरन्तराले स्फ्येन लेखामुलिखेत् अपहता असुरा रक्षांसि वेदिषदः । इति । तामभ्युक्ष्यसकृदाच्छिन्नैरवस्तीर्याऽऽज्यं गृहीत्वा ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेनाऽऽज्येन स्थालीपाकमभिघार्य दक्षिणाग्ने: पश्चादासादयेत् । यदि नवनीतम्राज्य कार्यार्थं स्यात्तदाऽस्य विलापनमात्रं कृत्वाऽन्यस्मिन्पात्र आनीयैकपवित्रेण सकृत्तूष्णीमुत्पूय ततो ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेर्निधाय तेन स्थालीपाकं स्रुषेण - भिघार्य ( दक्षिणत आञ्जनाभ्यञ्जनकशिपूपबर्हणानि सादयेत् ) । दक्षिणाग्नेः पश्चादा- साद्य प्राचीनावीतीध्ममुपसमाधाय मेक्षणं स्रुवेणोपस्तीर्य द्विरवदाय प्रत्यभिधार्य मेक्षणे- नाऽऽदाय जुहुयात् । सोमाय पितृमते स्वधा नमः | सोमाय पितृमत इदं न मम | इति दक्षिणाग्नौ प्रथमाहुतिं सव्यं जान्वाच्य जुहुयात् । ततः- अग्नये कव्यवाहनाय स्वधा नमः | इति दक्षिणानावेव द्वितीयाहुति हुत्वा यज्ञोपवीती मेक्षणं दक्षिणानावनुप्रहृत्य माची- नावती लेखां त्रिरुदकेनोपनयेत्