पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | भद्रानः श्रेयः समनैष्ट देवा इत्याह हुताद्याय यजमानस्यापराभावाय । इति । [ तै० सं० ५ काण्डे प्रपा० ७ अनु० २ ] यजमानो भक्षणकाले भद्रादित्यादिमन्त्रं पठेत् । अयं च मन्त्रो हुलशेषस्यादनाय समर्थः ः । अत्रीमहीति मन्त्रलिङ्गात् । हुतभक्षगेन यजमानः पराभूतो न भवति । एतच ब्राह्मणमामयणविधिसमीपे नेतव्यम् । ऐन्द्रामं द्वादशकपालं वैश्वदेवं यरुं प्रथमजो वत्सो दक्षिणा सौम्य श्यामाकं चरुं वासो दक्षिणा [ तै० सं० १ काण्डे प्रपा० ८ अनु० १ ] । १०८ हविर्द्व(स्त्र)ये दक्षिणाद्वये श्रृयमाणेऽपि कर्मैकवत्तिद्धयर्थमाग्रमणतां संवरूपां विधातुं प्रस्तौति - यावतीजा ओषधीनामतानामाश्नन् | ताः पराभवन् । [ तै० प्रा० का० १ प्र० ६ अ० १ ] इति । याबस्य ओपर्धानां संबन्धिन्य इति शेषः । विधत्ते- आश्रयणं भवति हुताद्याय | यजमानस्या पराभवाय " ( ९) । [तै० झा० का ० १५० ६ अ० १ ] इति । द्यावापृथिव्यमेककपालम् । [तै० सं० १ काण्डे प्रपा० ८ अ० २] | द्यावापृथिव्यदेवतां प्रशंसति- द्यावापृथिव्य एककपालो भवति । मजा एवं प्रजाता द्यावापृथिवीभ्या- मुभयजः परिगृह्णाति [० १० प्रा० का० १ १० ६ अ० २ ] इति । अलंकरणकाल आज्येनैककपालमभिपूरयतत्यापस्तस्त्रेन यदुक्तं तदिदं द्वेधा प्रशस्य विधत्ते-- “यजमानो वा एककपालः | तेज आज्यम् । यदेककपाल आज्यमान- यति । यजमानमेव सा समर्धयति । यजमानो वा एककपालः । पशुक आज्यम् । ( ४ ) यदेककपाल आज्यमानयति । यजमानमेव पशुभिः समर्घ- यति " । [ ते ० 1० ब्रा० का० १ प्र० ६ अ० ३ ] इति । विशेषान्तरं विधातुं प्रस्तौति-- " यदल्पमानयेत् | अल्पा एनं पशवोऽभुञ्जन्त उपतिष्ठेरन् । चळवारयेत् । बहव एनं पशषो भुञ्जन्त उपतिष्टेन " | [ते० प्रा०का० १प्र०६अ० ३] इति ।