पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | णास्य संबन्धनिवृश्यर्थम् । तेनायतरामित्यत्रैव भवति । अन्यतरां गतिं गच्छतीत्यर्थः सद्य एवारोगो भवेम्रियेत वेति ॥ ४० ॥ एवमनाहिताभिनित्ये ॥ ४१ ॥ दे० भाष्यम् ––एबमनाहिताग्नि उक्तः पिण्डपितृयज्ञ आहित,ग्नेरेबमेतेनैव विधि• नाऽनाहिताग्नेरौप सनोऽम.वास्यायां पिण्डपितृयज्ञः भवति नित्ये ।। ४१ बृत्तिः--अनहिता,निरप्येवं पिण्डपितृयज्ञ कुर्यान्नित्य औपासन इत्यर्थः ॥ ४१ ॥ श्रपयित्वाऽतिमणीय जुहुयात् ॥ ४२ ॥ दे० भाष्यम् – श्रपयित्वा गृझे श्रति वा पाठः । औपासनो गृह्यसंज्ञो भवति पाणिग्रहणादिगृह्यमिति बन्चनान्निथ्यो वा भवति नित्यानुगृहीतः स्यादिति वचनान्नित्ये श्रप- यित्वा नित्यो गृझ औपातनो निम्यादतिमणयनं कृत्वा नित्य एवाग्नौ अपयित्वाऽतिप्रणी- तेऽग्नौ जुहुयादिति सूत्रार्थः । तत्र दक्षिणान्नौ श्रपयेदित्युक्तम् । अनाहिताग्नेस्तु दक्षिणाभिर्न विद्यते तस्मान्नित्ये श्रपणं विवीयते दक्षिण, नेरेको मुकमित्युक्तम् । दक्षिणाग्नेरभावा- नित्यादतिप्रणयनं लाघवार्थं विधीयतेऽन्यथा गुरु स्यान्नित्या तिप्रणीय नित्ये अपयि. त्वाऽतिप्रणीते जुहुयादिति वक्तव्यं भवति तद्गुरु भवति जुहुयादित्युक्तेऽतिप्रणीते होमो विधीयते प्राक्सिद्धत्वादिह विद्यत इह विहितोऽपि विधिस्तत्रापि भवति ॥ ४२ ॥ ५ वृत्तिः--तस्यायं विशेषो हविः श्रपणं कृत्वाऽतिप्रणयनं कर्तव्यम् । तस्यैवातिप्रणी. तस्योपसमाधानं परिस्तरणं च कृत्वा ततोऽर्जागतिप्रगीतादित्यादि समानम् । जुहुयादित्य यमनुवादः । अयं चात्र विशेषः । यदन्तरिक्ष येतस्मिन्मन्त्रे गार्हपत्यशब्द उद्धर्तव्यस्तच्छ. ब्दंप्रवृत्ति निमित्तस्य संस्कारस्यात्राभावादिति ॥ ४२ ॥ द्विवत्पात्राणामुत्सर्गः ॥ ४३ ॥ दे० भाष्यम् – द्विवःपत्रःणां पात्राणां स्थल्यादीनां च द्वे द्वे पात्रे गृहीत्वोत्सर्गों नाम नयनं देशान्तर स्थापनं यथाशेवं होतृचमस आनयोत्सृजेदिति ॥ ४३ ॥ वृत्तिः --द्विश इत्यर्थः ॥ १३ ॥ तृणं द्वितीयमुद्रिक्ते ॥ ४४ ॥ दे० भाष्यम् – उक्तिमतिरिक्तं स्वाद्वितीयं पात्रं न विद्यते तस्यातिरिक्तस्य तृणं द्वितीयं भवति तृणेन सह तत्पात्रमुत्सृजति ॥ ४४ ॥ इति पिण्डपितृयज्ञसूत्रभाष्यम् । वृत्तिः --एकस्यातिरिक्तस्य तृणेन द्वित्वं संपाद्योत्सर्गः कर्तव्य इत्यर्थः ॥ ४४ ॥ इति पिण्डपितृयज्ञसूत्रवृत्तिः ।