पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ अग्निहोत्रचन्द्रिका | वृत्तिः- प्रत्येयादेति वचनसामर्थ्यादक्षिणामुखेनात्र - किंचिदनुव्रजनं कर्तव्यम् । अनिं प्रत्येयादमे तमद्याश्वं न स्तोमरस्य विशेषत्रचनेन दक्षिणाग्निमेवेतरयोर्विशेषाभिधानात् । प्रत्येयादिति शेयः ॥ ३४ ॥ वीरं मे दत्त पितर इति पिण्डानां मध्यमम् ॥ ३५ ॥ दे० भाष्यम् - वीरं मे दत्त इत्येतेन मन्त्रेण गृहीत्वा पिण्डानुपतिष्ठते । पष्ठं वचनमुत्तर- सूत्रार्थम् ॥ ३५ ॥ वृत्तिः–आदर्दीतेति शेषः || ३५ ॥ पत्नीं माशथेदाधत्त पितरो गर्ने कुमारं पुष्करस्रजम् | यथाऽयमरपा अस- दिति ॥ ३६ ॥ दे० भाष्यम् – मध्यमं पिण्डानां मध्यमं पिण्डं पत्नी प्रश्नयादाघत्तेत्येतेन मन्त्रेण प्राश- चेत्कर्ता वा जपति मन्त्रं मध्यमभावेऽर्थात्प्राशनं भवति ॥ ३६ ॥ वृत्तिः - तमेव मध्यममिति शेवः | पत्न्येव मन्त्रं ब्रूयादाधत्तेति ॥ ३६ ॥ अस्विरी || ३७ || वृत्तिः–प्रक्षिपेदित्यर्थः ॥ ३७॥ अतिमणीत वा ॥ ३८ ॥ वृत्तिः - प्रक्षिप्य दाहयेत् ॥ ३८ ॥ - यस्य वाऽऽगन्तुरन्नकाम्याभावः स प्राश्नीयात् ॥ ३९ ॥ दे० भाष्यम् – अथवाऽऽगन्तुरन्नकाम्याया अनेच्छाया भाव आगन्तुर्भवति स इतरौ प्राश्नीयाद्यस्य चेति वचनाद्यस्य कस्यचिद्भवति न यजमानस्यैत्र ॥ ३९ ॥ वृत्तिः—आगन्तुरभिनथो निर्निमित्त एवानेच्छा भयो यस्य स वेतरी प्राश्नी- यात् ॥ ३९ ॥ महारोगेणं वाऽभितप्तः माश्रीयादन्यतां गतिं गच्छति ।। ४० ।। दे० भाष्यम्——महारोगेण वाऽमिततो रोगो महारोगो दुश्चिकित्सो भवति तेन वाऽभिततोऽमिपीडितः प्राश्नीयादितरौ पिण्डौ । महारोगः क्षयव्याधिः कुष्टव्याधिरन्ये चैत्रं- विधाः । अत एवमन्यतरा गतिरधिकृनाया अन्या गतिर्यान्यवरा नामान्यतरां गति गच्छत्यजो भवतीत्यर्थः ॥ ४० ॥ - वृत्ति:-क्षयकुष्ठादिनाऽशक्यवारहरेशातिपीडितः । श्रीयादेत पूर्वे