पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथैनानुपतिष्ठेत नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय | स्वधा वः पितरो नमो वः पितरो नम एना युष्माकं पितर इमा अस्माकं जीवा वो जीवन्त इह सन्तः स्याम ॥ ३१ ॥ दे० भाष्यम् – अथैनाननन्तरमेतान्त्रिण्डानुपतिष्ठेतोपस्थानं कुर्यान्ननो वः पितर इत्ये- तैर्मन्त्रैः पिण्डा उपलक्षणं पितृणामेवोपस्थानं येषां च निपरणं येषां च निनयनं येषां च दानं मन्त्रलिङ्गादन्यथाऽत्रैतान्प्रवाहयेदिति प्रवाहणं नोपपद्यते ॥ ३१ ॥ - वृत्तिः – इतिकार/ध्याहारेण सूत्रच्छेदः | सन्तः स्यामेति मन्त्रः पठितव्यो विकारं वर्जयित्वा ॥ ३१ ॥ मनोन्वाहुवामह इति च तिसृभिः ॥ ३२ ॥ दे० भाष्यम् – मनोन्त्राहुवामह इत्येताभिश्च तिसभिरुस्थानम् ॥ ३२ ॥ वृत्तिः - उपतिष्ठेतेति शेषः ।। ३२ ।। अथैनान्मवाहयेत्परेतन पितरः सोम्यासो गम्भीरैभिः पथिभिः पूर्विणेभिः । दत्त्वायास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छतेति ॥ ३३ ॥ दे० भाष्यम्--अथैनानुपस्थानादनन्तरमैना न्यण्डानुपलभ्न पितॄन्यवाहयेद्विसर्जयेश- रेतनेत्यंतेन मन्त्रेण । उपस्थानस्य प्रवाहणमिति विशेषसंज्ञा यथास्थितस्य प्राप्नोति । अग्न्युपस्थान उपस्थानसंज्ञा मन्त्रस्य न प्राप्तोत्यविकाव्यवायात् ॥ ३३ ॥ वृत्तिः--अत्रापि पिण्डस्थान्पितॄनेव प्रत्राहयेत् || ३३ ॥ अग्निं प्रत्येयादने तमद्याश्वं न स्तोमैरिति गार्हपत्यं यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिर्हिसिम | अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु करोतु मामनेनसमिति ॥ ३४ ॥ -- दे० भाग्यम् - अग्निं प्रत्येयादझिं दक्षिणामि प्रत्येयापति निवृत्य गच्छेद्गत्वोपतिष्ठे ताग्ने तमद्येति प्रत्येयादिति वचनादाग्नेयत्वाच्च मन्त्रस्योपस्थानमेव गमनार्थे सति गमनलिङ्गेन भवितव्यं यथा मा प्रगामेति सूक्तस्य यथेतिवचनास्पञ्चाक्षरः पादो दशाक्षरो वा भवति वक्ष्यति पञ्चाक्षरेण विग्रहो दशाक्षरेणेति विकल्पः प्रत्येयादित्यनुच्यमाने गत्योपस्थानं न प्राप्नोति तत्रैव कुर्यादा।दुपकारित्वाद्गार्हपत्यं प्रत्येयादिति वर्तमानेऽन्योन्यं गत्वा गार्हपत्यमु पतिष्ठते यदन्तरिक्ष मित्येतयर्चा प्राचीनावीत्येव भवत्यधिकाराचा मन्त्रान्तो न भक्षजव उत्तरो मन्त्रः ॥ ३४ ॥