पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | चरोः प्राणभक्षं भक्षयेत् ॥ २७ ॥ - दे० भाष्यम् – तस्यैकदेशं गृहत्वैकं प्राणभक्षं भक्षयेनासिकस्थेन न चक्षुः प्राणस्तेन नासिकस्थेन भक्ष्यते गन्धः स प्राणभक्षो गन्धोपादनं प्राणभक्षो न प्राणभक्ष: प्राणभक्षं भक्षयेत्तेन विधिना भक्षं कुर्यादित्यर्थः ॥ २०॥ वृत्तिः--तृष्णीमेवात्र प्राणभक्षणे कार्यम् ॥ २७ ॥ नित्यं निनयनम् ॥ २८ ॥ दे० भाष्यम् - नित्यं निनयनं नित्यमुक्तं निनयनलेखां त्रिरुदकेनोपनयेदिति तदेवेह पुनः कर्तव्यमित्यर्थः। निननननन्यन्न वियते तस्माद्रुपनयनमेत्र निनयनमग्निहोत्र- होमे निनयनमस्तिं तःप्रकरणान्तरत्वान्न गृह्यते ॥ २८ ॥ वृत्तिः– यदुदको पनयनमुक्तं झुन्वन्तां पितर इत्यादिनन्त्रकं तदत्र निनयनमित्युष्यते । तदत्र कर्तव्यमित्यर्थः ॥ २८ ॥ असावभ्यङ्क्ष्वासावचेत पिण्डेभ्यञ्जनाञ्जने ॥ २९ ॥ दे० भाष्यम्-अतःबम्नछ्त्रानावश्येतौ मन्त्रावताभ्यां नाम गृहीत्वा दद्यादिति चक्ष्यति । अभ्यञ्जनं दद्यादनावित्यष्टम्याचिभक्त्या नाम गृह्णीयाद्भवदत्ताभ्यङ्क्ष्व भवत्राता- ह्चेति ॥ २९ ॥ वृत्तिः -- दद्यादिति शेषः ॥ २९ ॥ वासो घादशामूर्णास्तुकां वा पञ्चाशद्वषताया उर्व स्वल्लोमैतः पितरो वासो मा नोऽतोऽन्यत्पितरो युध्वमिति ॥ ३० ॥ दे० १० भाष्यम् - वासो दद्यापिण्डेषु वासो दद्याद्वास इत्युक्ते वस्त्रमान्तो दशा भवति वस्त्रान्तं दद्यादृर्णास्तुकां वा दद्यात् । ऊर्जास्तुकोणतन्तुः । एकामेव त्रिषु दद्यात्पञ्चाशद्वर्षाणि यजमानस्य भवन्ति तस्य पञ्चाशद्वर्यताया ऊर्ध्वमुपर्युत्तर आयुषि स्वलोम यजमानो दद्यादूर्ध्वं नाभेरित्युक्तमन्येषामधं नाभेः इमश्रुकेशेभ्योऽन्यत्र दद्य.त्पूर्व आयुषि उक्तो विकल्प उत्तर आयुष्पविकल्पस्तल्लुम भवति स्वग्रहण ऊर्गाधिकारादूर्णलोम प्राप्नोति एतद्वः ' इति मन्त्रेणा एतेनैव सर्वाणि दशादीनि दद्यादिह स्वग्रहण द्यजमानः कर्ता भवति नाध्वर्युः ॥ ३० ॥ 6 वृत्तिः – एतेष मन्यतमद्रत्र्यं वासो पिण्डेषु दद्यादित्यर्थः | दशा वस्त्रस्पान्तप्रदेशः । ऊर्णास्तुकां वाऽबिले मानि । पञ्चाशद्वर्षाणि यस्य स तथोक्तस्तस्य भावः पञ्चाशद्वर्षता | पञ्चाशद्वर्पतायाः पञ्चाशदर्भेष्वती जीवन्स्त्रीयमेव लोन वासोर्थ दद्यात् । मन्त्रस्वयमेत्र सर्वेषु द्रव्येषु सकृदेव भवति ॥ ३० ॥