पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ९३ तस्मै तस्मा इत्यारभ्यार्थकारितेत्यन्तानि त्रीणि सूत्राणि भाष्यकारोऽ- बीभषत् । तानि प्रादर्शयम् । वृत्तिकारस्त्विमानि सूत्राण्यन्यथैवावीत- द्यथा तथा व्याख्यानेऽपि न कांचिदपि शास्त्रार्थहानिं पश्यामः | यद्यपि न शास्त्रार्थहानिस्तथाऽपि भाष्यवृत्तिकारयोर्ब्रन्थं न वयमन्यययितुं प्रभवाम इति तथैव तद्ग्रन्थं निर्दिशामः | परं: यथावद्भेदं सौलभ्ये नावगमयितुं पार्थक्येन वृत्तिकारग्रन्थमुपनिवघ्नीमः । तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानर्च येत्तदर्थत्वात् । वृत्तिः—त्रयाणां मध्ये प्रेतानां पिण्डदानं जीवनां प्रत्यक्षार्चनमिति गाणगारेर्मतं पितृप्रीत्यर्थत्वात्कर्मण इति । सर्वेभ्य एव निवृणीयादिति तौलवलिः क्रियागुणत्वात् । वृत्तिः– पित्रादिभ्यस्त्रिभ्यः प्रेतेभ्यो जीवद्भ्यश्च सर्वेभ्यो निपरणं तौरवलिर्मन्यते । क्रिया- यामुद्देशकारकत्वेन च गुणभृताः पितरो न तेषां प्रीतिः शस्त्रनो लाकतोऽवगम्यत इति । अपि जीवान्त आ त्रिभ्यः प्रेतेभ्य एव निवृणीयादिति गौतमः क्रिया ह्यर्थ- कारिता | - वृत्तिः— आदिमध्यान्तशब्दैः पितृपितामहप्रपितामहा उच्यन्ते | जीवोऽन्तो यस्य स जीवान्तः । अपिशब्देन जीवादिर्जीवमध्य इत्यपि लभ्यते जीवसर्व इति च । अत्र त्रयाणा- मेकस्मिन्द्वयोः सर्वेषु वा जीवत्सु वा यावदर्थ पररान्पित गृहीत्वा तेभ्यस्त्रियो दयादिति गौतमो मन्यते । क्रिया ह्यर्थकारिता | मरणपदार्थप्रवृत्ता यस्मात्क्रियेत्यर्थः 1 1 उपायविशेषो जीवमृतानाम् ॥ १९ ॥ दे० भाष्यम् – एत उक्तपक्षा: सदोषा इदानीमन्य उपायविशेषो जीवानां च मृतानां च वक्ष्यते । प्रतिज्ञानमेतत् ॥ १९ ॥ वृत्तिः–पित्रःदीनां जीवानां मृतानां च पिण्डदान उपायविशेषो वक्ष्यत इत्यर्थः ॥१९॥ न्यस्ता पक्षान्द्पवितुमाह - - न परेभ्योऽनधिकारान्न प्रत्यक्षम् | न जीवेभ्यो निवृणीयात् ॥ २० ॥ दे० १० भाष्यम्-न परेभ्योऽनधिकारात्पित्रे पितामहाय प्रपितामहायेत्येत एवाधिकृता न परे । न प्रत्यक्षं गाणगारिणा प्रत्यक्षमितरान र्चयेदिति तदपि न कस्मादनाधिकारादेव । अनधिकृतं हि प्रत्यक्षमर्चनं होमोऽधिकृतो निपरणं च न जीवेभ्यो निपृणीयात् । यदुक्तं सर्वेभ्य एव निवृणीयादिति तपक्षे जीवान्तर्हितेभ्यस्तदपि न कस्मादनविकारादेव सर्वजीविन