पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ अग्निहोत्रचन्द्रिका | च त्वामत्रान्विति । एतत्ते भवत्रात इत्येव गृह्णाति । यदि द्विपिता स्यात्तदैकैकस्मिन्पिण्डे द्वौ द्वावुपलक्षयेदियुक्तमन्येपामस्माकमपि श्राद्धे वक्ष्यति ॥ १५ ॥ वृत्तिः—अधिकृतायां लेखायां लेखासंप्रत्ययार्थं तस्यांग्रहणं क्रियते नाधिकाराल्लेखा संबन्धोऽस्तीतिज्ञापनार्थम् । तेन हविरासादनमग्नेः पश्चादिति साधितं भवति तथैवोक्तं च । निवृणीयाद्दद्यादित्यर्थः । निपरणं पित्र्येणैव तीर्थेन । पाणेरुत्तानत्वमजहदेव पित्र्येग तीर्थेन यदा कुर्यात्तदा पराचीनपाणिर्भवति । अनावित्यस्य स्थाने संबुद्ध्यन्तानि पित्रादीनां नामानि गृह्णीयात् ॥ १५ ॥ एवमविशेषेग पिण्डदानमुक्तन् । तत्राऽऽचार्या विप्रतिपद्यन्ते - तस्मै तस्मै य एषां प्रेताः स्युरिति गाणगारिः प्रत्यक्षमितरानर्चये- त्तदर्थत्वात्॥ १६ ॥ दे० भाष्यम् –तस्मै तस्मा इत्याचार्यपक्ष इयं विचारणा | तस्तै तस्मै निघृणीयादेपां त्रयाणां प्रेताः सुर्भचेयुरिति गाणगारिराचार्यो मन्यते प्रत्यक्षमितरानर्चयेत् । प्रेतेभ्यो निवृते जीवेभ्यः प्रत्यक्षमर्चयेत्पूजयेद्गन्धमाल्यवृपदीपाच्छादनभोजनैः । कस्मादेतत्तदर्थत्वा- क्रियायाः । पित्रर्थे हि सा पितृमीणनार्थत्वात् । न च जीवा निपरणेन प्रत्यक्षार्चनेन तु प्रीयन्ते तस्मात्तप्रीणनार्थत्वात् ॥१६ ॥ जीवानां च प्रेतानां च निपरणमुक्तं तत्प्रतितितौलिराचार्य:- येतेभ्य एव निष्णीयादिनि तौल्वलिः क्रियागुणत्वात् । अपि जीवान्त आ त्रिभ्यः पितृभ्य एव निवृणीयात् ॥ १७॥ दे० भाध्यम् – मेतेभ्य एव निवृणीयान जीवभ्य इत्येव तौल्बलिराचार्यो मन्यते । कस्माद्धेतोः क्रियागुणत्वाकियाय: कर्मणि गुणभृता: प्रेता न जीवा गुणभृता निप- रणेन गुणभूताः प्रीयन्ते । तस्माक्रियागुणत्वात्प्रेतेभ्य एव निपरणम् | अपिशब्दः समुच्चयार्थ: । त्रयोऽधिकृता अपि जीवो न विद्यते तस्माज्जीवान्तात्प्रभृति त्रिभ्य एतेभ्यः पितृभ्य एव निष्पृणीयादिति तौल्य लिरिति वर्तते । त्रिग्रहणमधिकृतेभ्योऽपि भवति त्रिभ्यो दद्यादिति श्रुतिः सप्तपुरुषाणामितो विज्ञायते ॥ १७ ॥ सर्वेभ्य एव निपूणीयादिति गौतमः क्रिया द्यर्थकारिता ॥ १८ ॥ - दे० भाष्यम् – जीवानां प्रेतानां च निपृणीयादिति गौतमो मन्यते सर्वेभ्य एत्र प्रेतेभ्यो जीवभ्यो निवृणीयादिति गौतम आचार्यो मन्यते कस्माद्धेतो; क्रिया हार्थकारिता ह्रीति हेत्वर्थे । क्रिया हि यस्मादर्थकारिता ॥ १८ ॥