पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० अग्निहोत्रचन्द्रिका | सर्पिर्घृतं तदाज्यसंज्ञं भवति तच्चोत्पूतं भवति नवनीतस्योत्पवनं कर्तव्यभेकपवित्रेण सकृदुत्पवनं तूष्णीकं मन्त्रोपदेशाभाव त् । गृह्योपदिष्टो विधिरिह न प्राप्नोति यदि प्रामु यादवदानसंपदा जुहुयादिति न वक्तव्यं ध्रुवायामाज्यं कृत्वा तदाज्यमन्यस्मिन्पात्रे संस्कृ त्योत्पूयानुत्पू वा ततो ध्रुत्रायामाज्यं कृत्वा ध्रुवामासादयेत्पुनराज्यग्रहणाद्धौवमपि बाऽऽज्याभिघारणप्रत्यभिघारणार्थं च भवति कृत्वेति साकाङ्क्षत्वाद्वाक्यस्याऽऽसादयेदित्य- भ्याहारो भवति ॥ १० ॥ - - वृत्तिः—आज्यं सर्पिरियादिर्ध्रुवायामाज्यं कृवा दक्षिणत इत्येवमन्तः पदसमूह आसा- दयेदभिघार्येत्यस्मात्पुरस्तादर्थतो द्रष्टव्यः । तेनायमर्थः - तां लेखामभ्युक्ष्य सकृदाच्छिन्नैरव- स्तीर्याऽऽज्यं सर्पिगृहीत्वा ध्रुवायां कृत्वा दक्षिणतो दक्षिण निर्धाय तेनाऽऽज्येन स्थाली- पाकमभिघार्य दक्षिणःग्नेः पश्चादासादयेत् । यदि नवनीतमाज्यकायार्थं स्यात्तदाऽस्य विला- पनमात्रं कृत्वाऽस्मिन्पात्र अ.नीय पवित्राभ्यां तूष्णीमुत्पूय ततो ध्रुवायां कृत्वा दक्षिणतो दक्षिणाग्नेनैवाय तेनाभिघार्येयादि समानम् द्वितीयाज्यग्रहणस्थेदं प्रयोजनं पात्रान्तरस्थ- मुत्पूय पश्चाद्भुत्रायां ग्रहगमित्येव नर्थम् । पूर्वमग्रहणं का लक्षणार्थम् । सर्पः पक्कं नव- नीतमपक्कन् ।। १० । दक्षिणत आञ्जनाभ्यञ्जनकशिपूपबर्हणानि ॥ ११ ॥ दे० भाग्यम् – दक्षिणतो लेख. या दक्षिणतो दक्षिणस्यां दिश्यञ्जनादीनि स्थापये- दञ्जनं त्रैककुदं श्रुतःञ्जनं वाऽन्यत्र दक्षिणादिषु प्रयुक्तत्वाल्लौकिकं वा भवति । अविशेष. बचनादम्पञ्जनं जर्णिं घृतं भवति ।' आयुतं पितॄणाम् ' इति श्रुतिः। उपबणं शिरो- पधानं भवति । एतानि दक्षिणत उपकल्पयेत् ॥ ११ ॥ वृत्तिः——दक्षिणत इत्यत्रापि संबध्यते विशेषाग्रहणादपेक्षित्वाच्च । अञ्जनादीनि च दक्षिणतो दक्षिणाग्नेनिंदध्यात् । पूर्वसूत्रे यथाक्रमेण सूत्रप्रणयनं दक्षिगत इत्यस्योभया- र्थत्वायैव ॥ ११ ॥ प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनाऽऽदायावदानसंपदा जुहुयात् सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इति ।। १२ ।। दे० भाष्यम् – प्राचीनावीती प्राचीनावीतमाचारशास्त्रसिद्धं प्राचीनावती भूत्वा इध्म इन्धनसिद्ध्यर्थमुपसन्नः सव्यं जान्वाच्य समस्तं तूष्णीमाधाय प्रक्षिप्य मेक्षणेन चरोरादायावदानं गृहीत्वाऽवदानसंपदा मध्यात्पूर्वार्धच्च हविषोऽवद्यात प्रत्यभिचार्य हवि- रवत्तं चैपोऽवदानधर्म इति तयाऽत्रदानसंपदाऽऽदाय जुहुयादेवंभूत इति स्रुवेणाऽऽ- दाने प्राप्ते मेक्ष गेनाऽऽदाये युच्यते तत्राभिधारणप्रत्यभिवारगे स्रुषेण कर्तव्ये प्रतिषेधाद्गृह्य- विहितो विधिरिह न प्राप्नोति तस्मादवदानसंपद्विवीयत सोमाय पितृमत इत्येताभ्यां द्वे