पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अचन्द्रिका | परिसन्नान्निध्यात् ॥ ६ ॥ - दे० भाष्यम् - परिमन्नान्निध्याचे परिशीणस्ताञ्शकटे निदध्यात् । एवमनुष्य- माने परिसन्न/नामेबाबहननादिसंस्कार : मानति तूष्णीं निभृजेत् ॥ ६ ॥ वृत्तिः—स्थास्यास्यदेशाच्छ्रे ये पतन्ति तान्त्रीही परिसन्नाञ्शकटे निद- भ्यात् ॥ ६ ॥ कृष्णाजिन उलूखलं कृत्वेतरान्पत्स्यवहन्यादविवेचम् ।। ७ ।। दे० भाष्यम् दक्षिणत इत्यधिकारोऽदक्षिणतः प्रत्यगुदग्ग्रीवमुत्तरलोमकृष्णाजिनना- स्तीर्य तस्मिन्नुलखलं कृत्वा स्थापयित्वेतरान्स्थास्यन्तर्गतान्त्री हीन्यान्यवन्यान्निस्तुषाकु- र्याप रेसन्नाधिक'रादितरानिति । इतरग्रहणं कर्तुरावकारात्पन्नीग्रहण मविवेचनविविध्याविवि- ब्येमे व्रीहय इमे तण्डुला इति विवेकमकृत्वाऽहननम् ॥ ७॥ वृत्तिः–कृत्वा निध।येत्यर्थः । इतरान्स्थ ल्यन्तरगतानित्यर्थः । अविवेचम् । अत्रिवि- घ्याविविध्येत्यर्थः ॥ ७ ॥ अवहतान्सकृत्मक्षाल्य दक्षिणामौ श्रपयेत् ॥ ८ ॥ दे० भाष्यम् - पुनरवहननग्रहणात्फ ली करणप्रतिपेचस्तस्मात्तथाऽवहन्यते यथाऽमी कृता एव भवन्ति सकृत्प्रक्षालनमित्युक्तमन्येषा व्रीहिमिश्रा नेव सकृत्प्रक्षाल्य ततः प्रक्षालनमन्यत्र दक्षिणाझौ स्थाढीपाकं श्रपयेद्दक्षिणाग्न्यधिकारे पुनर्दक्षिणान्निग्रहणं नियमार्थं तेन दक्षिणाम होमो नातिप्रणीते ॥ ८ ॥ वृत्तिः—अत्रहतेष्वबहतवचनं फली करगनिवृत्यर्थम् | दक्षिणाग्न्यधिकारेऽपि दक्षि णाम्नौ श्रपयेदिति श्रपणवचनं वचनाहते गार्हपत्य एव श्रपणनितिज्ञापनार्थम् ॥ ८ ॥ अर्वागतिप्रणीतात्स्फ्येन लेखामुल्लिखेदपहता असुरा रक्षांसि वेदिषद इति ॥ ९॥ दे० भाष्यम् - अगतिप्रणीताद तिप्रणीतादग्रव, देशे स्फोन वत्रेण लेखामुलिखे- दपहता इत्येतेन मन्त्रेण दक्षिणाग्न्यधिकारादतिप्रणीतग्रहणम् ॥ ९ ॥ वृत्तिः–दक्षिणाग्न्यतिप्रणीतयोरन्तरल उल्लिखेदित्यर्थः ॥ ९॥ तामभ्युक्ष्य सदाच्छिन्नैरवस्ती र्याऽऽआसादयेदभिघार्य स्थालीपाकमाज्यं सर्पिरनुत्पूतं नवनीतं वोत्पूनं ध्रुवायामाज्यं कृत्वा ॥ १० ॥ दे० भाष्यम् – तामभ्युक्ष्य तां लेखामुदकेन / भ्युक्ष्यानन्तरं सदाच्छिनैस्तृणैरव- स्तीर्याऽऽसनं कृत्वाऽनन्तरं वैद्य मासादयेत्तमभिघार्थ स्थली पाकमासादयेल्लेखाधिकारे पुन स्तामिन्याह तो नामिति बीप्स यत्र लेखाद्वयं भवति पितृभ्यो दद्यास्त्रीभ्यश्चेत्यत्राऽऽज्यं १२