पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | वृत्तिः - अविशिष्टदिक्कानि सर्वाणि कर्माणि तामेव प्राग्दाक्षणां दिशमभिमुखानि कर्तव्यानि ॥ ३ ॥ उपसमाधायोभौ परिस्तीर्य दक्षिणानेः प्रागुदक्प्रत्यगुदग्वकैकशः पात्राणि सादयेच्चरुस्थात्लिशूर्पस्फ्योलूखलमुसलस्रुव ध्रुवकृष्णाजिनसकृदाच्छिन्नेथ्ममेक्षण- कमण्डलून् ॥ ४ ॥ दे० भाष्यम् - उपसमाधाय सुसमिद्धं कृत्वोभौ परिस्तीयभावनी दक्षिणाम्यति- प्रणीतौ परिस्तरणं कृत्वा परि समन्ततः स्तरणं तद्गृह्ये वश्यति । अतिप्रणीताधिकारादु भावित्युच्यते तत्र दक्षिणाम्न्यतिप्रणीतयोः परिस्तरणम् । विहाराङ्गानुक्रमादतिप्रगीतस्य चा प्रथमं प्रधानत्वात्प्रधाने होमो भवति दक्षिणाग्न वा स्माद्दाक्षतणाग्नेः प्रागुदीच्यां. दिश्येकैकमेकैकशः पात्राणि यानि वक्ष्यामस्तानि सादयेन्स्थापयेत्कानि चरुस्थालीस्येत्रमा- दीनि । उभयोरधिकारादक्षिणा त्याह । द्वन्द्व पात्राणि प्रयुक्तीति प्रकृतौ तस्मादेर्केक- मित्याह । एकैकशोबचनात्प्रोक्षणादिपात्रसंस्कारः प्राप्तः पात्राणि वक्ष्यन्ते चरोः स्थाली चरुग्रहणादाज्यस्थ'ल्याः प्रतिहः शूपं स्फ्योवहननार्थमुलूखलं मुसलं च स्रुवश्च ध्रुवा च कृष्णाजिनं च समूलं बर्हिः सदाच्छिन्नं भवति सकृच्छिन्न इध्मः पञ्चदशो भवति आघारसमिधावनूयाजकी चार्थाल्लुप्यन्ते । मेक्षणं होमार्थं कमण्डलुरुदकार्थम् ॥ ४ ॥ वृत्तिः– उभयोर युपसमाधानं परित्तरणं च कर्तव्यं मध्यगतस्योभा बितिशब्दस्य विशेषसंबन्धे कारणाभावात् । पात्राणीति चरुस्थाल्यादीन्युच्यन्ते । तेन शब्देन संव्यवहा- राथ चरुवपणार्था स्थाली चरुस्थाली चरुस्थालीध्रुवाशब्दयोश्छन्दसं ह्रस्वत्वम् | एकेन्द्र प्रयत्नेन च्छिन्नाः कुशा: सदाच्छिन्नाः ॥ ४ ॥ दक्षिणतोऽग्निष्ठमारुह्य चरुस्थालीं श्रीहीणां पूर्णा निमृजेत् ॥ ५ ॥ - दे० भाष्यम् – दक्षिणतो दक्षिणाग्न्यधिकारस्तस्माद्दक्षिणा नदक्षिणतो दक्षिणस्य दिश्यग्निउं शकटं प्रांगेव स्थापितं भवति तमारुह्य चरुस्थाली त्रीहीणामेव न यवानां पूर्णां सर्ती निमृजेत्पाणिना निमाटिं शिष्टानपनयति ॥ ५ ॥ - वृत्तिः - निमृज्यादिति प्राप्ते निमृजेदिति च्छान्दसः | अग्निसमीपे तिष्ठतीत्यग्निष्ठ शकटम् । प्रयाणकाले वाऽग्नयो यत्र तिष्ठन्ति तदग्निष्ठम् । दक्षिणत आरुह्य तत्रैव शूर्पे स्थाळी निधाय ब्रीहिमिरपुरयेत् तां पुर्णां निमज्यायपरितनाद्विलदेशाच्छ्पपरि पतन्ति ॥ ५ ॥ १ अभावः ।