पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ ज्ञाप्यवृत्तिसमेतं पिण्डपितृयज्ञमूत्रम् | अमावास्यायामपराह्णे पिण्ड पितृयज्ञः ॥ १ ॥ दे० भाष्यम् – अमावास्यायां वा यजमानाधिकारादिहयज्ञशब्देऽपि प्रयोगसंज्ञा विधी- यते । याजमानस्यात् । अथवाऽग्निहोत्रादनन्तरं दर्शपूर्णमासयोरिग्याकालो भवति तौ च्याख्यातौ तयोरिज्याकाले पितृयज्ञो विधीयते तदङ्गत्वादमावास्यायां तिथाबह्नश्चतुर्थ- भागं दर्शयति । तस्नादर्शाङ्गं भवति । अङ्गत्वादृष्टचन्द्रायामपि क्रियते पितृयो याबापू- थिव्यावयने कुण्डपायिनामयने च क्रियते । एवं बौधायनोऽपि प्रवत्ततोऽन्येषां तुल्याङ्गं स्वकालविधानाच्चन्द्रादर्शने दृश्यमाने तु नान्येशं क्रियते । अक्रियमाणेऽपि दर्शः क्रियते कुण्डपायिनामयनादिषु च न क्रियते || १ || वृत्तिः—अमावास्याशब्दः प्रतिपत्पञ्चदश्योः संधिवचनोऽप्यत्रापराह्न शब्दसमन्वयात्तद्व- त्यहोरात्रे वर्तते । तस्यापराह्णेऽह्नश्चतुर्थे भागे पिण्डपितृयज्ञः कर्तव्य औपबसथ्येऽहनि यज- नीये चेत्स्वार्थ एव दक्षिणाग्निः प्रणीयते । यदा पुनरहोरात्रसं तिथिसंधिः स्यात्तदौपच सध्य एवाहनि क्रियते ॥ १ ॥ दक्षिणाशेरेकोल्सुकं माग्दक्षिणा प्रणयेद्ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परा पुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्मणुदात्वस्मा- दिति ॥ २ ॥ 1 दे० भाष्यम् - दक्षिणा मेर्दशर्थे बिहारः क्रियते । एवं बिहार एवं चोदना दक्षिणाम्नेस्तस्मा दक्षिणाग्नेरेकोल्नुकग्रहणःद्विशाखं न भवति प्राग्दक्षिणस्यां दिशि प्रणयेचे रूपाणीत्यनेन मन्त्रेण । कर्मादाचेवातिप्रणयनोपदेशादतिप्रणीत इह प्रधानः प्रधानत्वादविशेषत्र वनाच्चा- तिप्रणीते होममन्येषां हुत्वाऽतिप्रणयनम् | नचापसंधानं न च परिस्तरणं पश्चाद्दक्षिणाग्नेः स्थालीपाकस्य सदनाद्येपां दक्षिणाम होमस्तेषां हुवाऽतिप्रणयनं चोपलंधानं न च परि- स्तरणम् ॥२॥ वृत्तिः– एकोल्मुकमेकतः प्रदीप्तमुल्मुकं प्रारदक्षिणा माग्दक्षिणस्यां दिशीत्यर्थः । दक्षिणाग्नेः सकाशादेकोल्मुकं गृहीत्वा तस्मादेव प्राग्दक्षिणस्यां दिशि प्रणयेत् 'ये रूपाणि ' इत्यनेन मन्त्रेण || २ || सर्वकर्माणि तां दिशम् ॥ ३ ॥ दे० भाष्यम् – आसादनहोम निपरणोपस्थानादीनि तां दिशं प्रारदक्षिणां दिशमभि कर्तव्यानि नित्या इत्येतस्यापवादः । सर्वग्रहणार्हपत्यपस्थानस्यापि प्राप्तिः ॥ ३ ॥