पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ८३ सा० भाष्यम् – इतो भूलोकादा रम्यान्तरिक्षलोकमतिक्रम्य यस्तृतीयो लोकस्तत्र पितरो वर्तन्ते । अतस्त्रित्वेन तान्परितोषयति ॥ विधत्ते-- पराङग वर्तते ( ५ ) ह्लीका हि पितरः । इति ॥ सा० भाष्यम् – दक्षिणाभिमुखः पिण्डं दत्त्वा पिण्ड निरीक्षणं परित्यज्य पराङ्मुखो भवेत् । पितॄणां लज्जाशीलन्चात् । लोकेऽपि हि भुञ्जानाः प्रभवो नान्यैवी॑क्ष्यन्ते ।। विधत्ते-- ओष्मणो व्यावृत उपास्ते | उष्मभागा हि पितरः । इति ॥ सा० भाष्यम् – औष्ण्यवशास्पिण्डेषु योऽयमा निर्गच्छति तस्याऽऽ व्यावृतो याक- दुपरमस्तदुपरमपर्यन्तं तथैत्र स्थित्वा सेवेत | पितॄणामृष्मभागिस्बेन तच्छान्तिपर्यन्तं तद्भो- जनकालःवात् || अथ विचारपूर्वकं पिण्डशेषस्य पात्रगतस्याऽऽघ्राणं विधत्ते ब्रह्मवादिनो बदन्ति | माश्यां ३ न माझ्या ३ मिति । यत्मानीयात् । जन्यमन्नमद्यात् । प्रमायुकः स्यात् यन्न प्राश्नीयात् । अहविः स्यात् ( ६ ) पितृभ्य आवृश्च्येत । अवद्येयमेव | तन्नेव प्राशितं नेवाप्राशितम् । इति । | सा० भाष्यम् - विचारार्था प्लुतिः । प्राशनपक्षे बीजभक्षणवददनीयस्याभावात्क्षुधितो यजमानो म्रियेत । अप्राशनपक्षे तु सर्वत्र हविः शेपस्य भक्षणदर्शनाददं हविरेव न स्यात् । अतोऽयं पितृभ्योऽत्रच्छिद्येत । अतो दोषद्वयपरिहाराय पात्रगतमन्नमवजिघ्रदेव । तदवघ्रातं प्राशितमिव न भवति निगरणाभावात् । अप्राशित मिव न भवति तदीयग- न्धस्यान्तः प्रवेशात् ।। यदुक्तं सूत्रकारेण– –“ वाससो दशां छिन्वा निद्वाति” इति । तदेतद्विधत्ते — चीरं वा वै पितरः प्रयन्तो हरन्ति । वीरं वा ददति | दशां छिनत्ति । हरणभागा हि पितरः | पितॄनेव निरवदयते । इति ।। सा० भाष्यम् – पिण्डरूपमन्नं भुक्वा यदा पितरः 'स्वस्थाने प्रयान्ति तदानीमस्य वीरं पुत्रं विद्यमानम्पहरन्ति वाऽविद्यमानं दति वा । पक्षद्वयमपि संभाव्यते । वैकल्ये पुत्रं मारयन्ति । साकल्ये पुत्रं प्रयच्छन्ति । अत्र वैकल्यस्य दुष्परिहत्वात्पुत्रप्रत्याग्ना- · J