पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ अग्निहोत्रचन्द्रिका | यदुक्तं सूत्रकारेण -- " मेक्षणमुपस्तीर्य तेनाचदायाभिवार्य " इति । तस्य मेक्षणस्याग्नौ प्रहरणं विधत्ते- तूष्णीं मेक्षणमादधाति । अस्ति वा हि षष्ठ ऋतुर्न वा । इति ॥ सा० भाग्यम् – मेक्षणशब्देन प्रादेशमात्रा समिदुच्यते । हविरवदानसाधनं मेक्षणं मन्त्रमन्तरेणाग्नौ प्रक्षिपेत् । शास्त्रेषु पष्ठ ऋतुरस्तीत्येकः पक्षः । षड्वा ऋतवः " इति श्रुतेः । नास्तीत्यपरः पक्षः । “ पञ्चर्तवी हेमन्तशिशिरयोः समासेन " इति श्रुत्य- न्तरात् । अतस्तूष्णीं समिदाधाने पक्षद्वयमप्यनुसृतं भवति । तत्र समिधः प्रक्षिप्तत्वाद- स्तित्वपक्षोऽङ्गीकृतः । मन्त्रराहित्यादभावपक्षोऽङ्गीकृतः ॥ आहुतित्रयं पिण्डत्रयं च प्रकारान्तरेण प्रसंसति - देवान्वँ पितृन्त्रतान् । मनुष्याः पितरोऽनु प्रपिपते । तिस्र आहुतीर्जुहोति । त्रिर्निधाति । षट्संपद्यन्ते । पड्वा ऋतवः । ( ४ ) ऋतवः खलु वै देवाः पितरः । ऋतूनेव देवान्वितन्मीणाति | तान्मीतान् | मनुष्याः पितरोऽनु प्रपिपते | इति ॥ सा० भाष्यम् – द्विविधा हि पितरो देवात्मका मनुष्यात्मकाश्च । पितृलोकस्वामिनो देवात्मका:

। मृताः सन्तो भोगात्तल्लोकं प्राप्ता मनुष्यात्मकाः । तत्र देवात्मकेषु पितृषु

मीतेषु ताननु मनुश्यात्मकाः पितरः प्रपिपते प्रीता भवन्तीति युक्तम् । तदर्थमादौ तिस्र आहुतयः पश्चात्पिण्डत्रयम् । किं चे भयमेलनेन पसंपत्त्या तत्संख्याका ऋतवः संपद्यन्ते । ऋत्वभिमानिनश्च देवाः पितरः । ततश्च संख्यामःत्रेण देवपितृष्ठ प्रीतेषु पश्चान्मनुष्यपितरः प्रीता भवन्ति ॥ विधत्ते-- सकृदाच्छिनं वर्हिति । सदिव हि पितरः । इति ॥ - सा० भाष्यम् - पिण्डानामचस्ता चर्हिरारतीयते तदेकप्रयत्नेनैव च्छेदनीयम् । न तु लवनकाले दात्रस्य पुनःपुनर्व्यापारः | एकेनैत्र दृढेन व्याप.रेण यावदवाच्छिन्नं ताव- देत्राऽऽनेतत्र्यम् । यस्नात्पितरः सकृन्मरणेनैव पितृत्वं प्राप्नुवन्ति । न तु तत्प्राप्तये पुन:- पुनन्तेि || पिण्डदानस्य त्रित्वं प्रशंसति -- त्रिनिंदधाति | तृतीये ना इतो लोके पितरः | तानेव प्रीणांति | इति ।।