पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचान्द्रका | ८१ एतद्वेदनं प्रशंसति --- एतद्वै ब्राह्मणं पुरा वाजश्रवसा विदामकन् | तस्मात्ते द्वे द्वे जाये अभ्या- क्षत । य एवं वेद । आभि द्वितीयां जायामश्नुते । इति ॥ सा० भाष्यम् - वाजोऽन्नं तद्दाननिमित्तं श्रवः कीर्तिर्यस्य महर्षेरसौ वाजश्रवास्तस्य `पुत्रा वाजश्रत्रसाः । ते च पुरा " सोमाय पितृपीताय " इति मन्त्रस्य व्याख्यानरूपमेत- विदित । तस्माद्वेदनìत्ते महर्षयः प्रत्येकं जायाद्वयमभिप्राप्तवन्तः । तस्मा दन्योऽपि विदित्वा द्वितीयां जायां प्राप्नोति ॥ अथ द्वितीयहोममन्त्रं विधत्ते- अग्नये कव्यवाहनाय स्वधा नम इत्याह । य एव पितॄणामग्निः । तं श्रीणाति । इति ॥ सा० भाष्यम् - कव्यं पित्र्यं हविहतीति कन्यवाहनः | तस्य च पितृसंबन्धोऽन्य- त्राप्याम्नातः - “ त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यत्राहनः पितॄणाँ सह रक्षा असुराणाम् " इति । तस्मादेतन्मन्त्रहोमेन तं पित्र्यम में परितोषयति || शाखान्तरगतेन—“ यमायाङ्गिरस्वते पितृमते स्वधा नमः " इति मन्त्रेणैकामाद्भुतिम- भिप्रेत्य त्रित्वं विदधाति - तिस्र आहुतीर्जुहोति । इति ॥ सा० भाष्यम्-तथा च सूत्रकारण स्पष्टमुक्तम्- ' सोमाय पितृपीताय स्वधा नमः , इति प्रथमां दक्षिणाग्नौ जुहोति ' यमायाङ्गिरस्वते पितृमते स्वधा नमः' इति द्वितीयामग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् । इति ॥ यदुक्तं सूत्रकारण-- सव्यं जान्याच्यावाचीनपाणि: सक्कदाच्छिन्ने बर्हिषि दक्षिणापवर्गन्निडान्ददाति | इति ॥ तदिदं विधत्ते-- त्रिनिंदधाति । इति ॥ तदेतदाहुतित्रयं पिण्डत्रयं च मिलित्वा प्रशंसति -- षट्पद्यन्ते ( ३ ) | षड्वा ऋतरः । ऋतूनेव श्रीगाति । इति ॥