पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ पिण्डपितृयज्ञविधानम् | अथ दशमे पिण्डपितृयज्ञ उच्यते । तत्राऽऽदौ कालविशेषं विधत्ते--- इन्द्रो वृत्र हत्वा । असुरान्पराभाव्य | सोऽमावास्यां प्रत्यागच्छत् । ते पितरः पूर्वेद्युरागच्छन् । पितॄन्यज्ञोऽगच्छत् । तं देवाः पुनरयाचन्त । तमेभ्यो न पुनरददुः । तेऽब्रुवन्वरं वृणामहै । अथ वः पुनर्दास्यामः । अस्मभ्यमेव पूर्वेयुः क्रियाता इति ( १ ) तमेभ्यः पुनरददुः । तस्मात्पितृभ्यः पूर्वेद्युः क्रियते । यत्पितृभ्यः पूर्वेद्युः करोति । पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः मतनुते । इति ॥ ८० सायणभाष्यम् – इन्द्रः पुरा युद्धे वृत्रं हत्वा तदीयानसुरांश्च पराभूतान्कृत्वा पश्चा- दमावास्यायागदिनं प्रति स्त्रगृहे समागच्छत् । शुक्लप्रतिपदि ह्यमावास्यायागः क्रियते । ततः पूर्वेद्युः पितर आगतास्तैः पितृभिः सह यज्ञोऽपि गतः । तं पितृभिः सहावस्थितं यज्ञं देवाः स्वार्थमयाचन्त । पूर्वमस्मदीयो यज्ञ इदानीं भवत्समीपमा गतः । पुनरस्मभ्यमेव यज्ञो दातव्य इति । ततः पितरस्तमदखा तद्दानार्थमुत्कोचमपेक्षितवन्तः । पूर्वेयुर्दर्शदिनेऽस्मदर्थं कर्म कर्तब्यम् । ततः प्रतिपद्यनुष्ठेयं दर्शपूर्णमासाख्यं यज्ञं दास्याम इति प्रत्यजानन् । ततो देवैस्तथेत्यङ्गीकृते तं यज्ञं दत्तवन्तः । तस्मात्पित्रर्थं कर्म पूर्वेधुः पूर्वदिने कुर्यात् । तथा कृते तेन मूल्येन यज्ञं पितृभ्यो निष्क्रीय यजमानस्तमनुष्ठातुं प्रवर्तते ।। कालं विधाय होममन्त्रं विधत्ते - सोमाय पितृपीताय स्वधा नम इत्याह । पितुरेवाधि सोमपीथमवरुन्धे । न हि पिता प्रमीयमाण आहेष सोमपीथ इति । इन्द्रियं वे सोमपीथः । इन्द्रियमेव सोमपीथमवरुन्धे । तेनेन्द्रियेण द्वितीयां जायामभ्यनुते ( २ ) | इति । सायणभाष्यम् –पितृभ्यः पीतोऽमृतत्वेन परिणतो यः सोमस्तस्मै सोमायेदं स्वध' दत्तम् । नमस्कारोऽपि कृत इत्यमुं मन्त्रं होमकाले ब्रूयात् । अनेन होमेन स्वकीयस्य पितु रघ्युपारै यत्सोमपानं पूर्वं वृत्तं तत्स्वयं प्राप्नोति । पितुः संबन्धि गृहक्षेत्रादिकं यथा होम. मन्तरेण प्राप्नोति तद्वत्तदीयं सोमपानमपि प्राप्नोतीति चेन्मैवम् । गृहादिवदसमर्पितत्वात् । प्रमीयमाणः पिता पुत्रमाहूयेदं गृहमिदं क्षेत्रं तत्रेति यथा ब्रूते तथा सोमपानमिदं तत्रेति न हस्ते समर्पयति । तस्माद्धोमेनैव सोमपानफलं संपादनीयम् । नचैतत्प्रयाससाध्यं सोम- पानं मा भूदेवेति शङ्कनीयम् । सोमपानस्थेन्द्रियवृद्धिरूपत्वेनावश्यं पापणीयत्वात् । पूर्वं स्वस्मिन्विद्यमानेनेन्द्रियेणैकां जायां भोक्तुं समर्थः । तृप्रसादलब्वेन विन्द्विषेण द्वितीया- मपि भोक्तुं समर्यो भवति ॥