पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | भूर्भुवः स्वः ॥ २२ ॥ भाष्यम् - एतावत्कालं कृतं वाग्यमनं लोकत्रयप्रापकं भवत्वित्यर्थः ॥ २२ ॥ मनो ज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं साममं दधातु । या इष्टा उषसो या अनिष्टास्ताः संतनोमि हविषा घृतेन स्वाहा ॥ २३ ॥ ७९ भाष्यम् — उद्वासनापराधपरिहाराय मनो माननीयमग्नेर्ज्योतिर्हव्यमाज्यं सेत्रताम् । विच्छिन्नमिमं यज्ञं संदधातु । या उपसः प्रातः कालोपलक्षिता आहुतयः । उष इति हाम- कालोपलक्षणम् । तेन सायंतना अपिगृह्यन्ते । इष्टा इतरैर्यजमानैरनुष्ठिता मया त्वन्तरितास्ताः सत्र आहुतीरनेन वृतेन हविषा संदधाम्यविच्छिन्नाः करोमि ॥ २३ ॥ गृहा मा विभीतोप वः स्वस्त्येवोऽस्मासु च मजायध्वम् । मा च वो गोपती रिषत् ॥ २४ ॥ भाष्यम्-हे गृहा गृहस्थाः प्राणिनो मा बिभीत भीर्ति मा कुरुत | वो युष्मानस्मासु च ‘स्वस्त्येवोपप्रजायध्वम् । यथाकल्याणं वर्तन्ताम् । वो युष्मान् गोपतिर्यजमानो मा रिषन्मा हिंसीत् ॥ २४ ॥ गृहानहं सुमनसः प्रपद्येऽवीरघ्नो वीरवतः सुवीरान् । झां चहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानि ॥ २५ ॥ भाष्यम् – गृहानहं प्रपद्ये । की हृशान्सुमनसो गृहेष्ववस्थिता मां दृष्ट्वा सुमनसो भवन्तीति गृहाः सुमनस इत्याह । अवीरघ्नो वीराः पुत्रा अतद्धननस्वभावोऽहं वीरवतः सुवीराञ्ञ्ज्ञोभनरक्षकपुरुषयुक्तानिरामन्नं वहन्तो घृतमुक्षमाणा ब्राह्मणेषु भुखानेषु यत्र घृत- मुक्ष्यते तत इत: सिच्यते ते गृहा उच्यन्ते । घृतमुक्षमाणा इति द्वितीया प्रथमा । प्रपद्य च तेष्वेवंभूतेषु गृहेष्वहं सुमना भूत्वा संविशानि प्रविशामि ॥ २५ ॥ शिवं शग्मं शंयोः शंयोः ॥ २६ ॥ भाष्यम् – शिवं शग्मं द्वे अनेते सुखस्य नाम्नी । अनेकप्रकारं सुखं भवत्विति शेषः । कस्य शंयोः । शमिति सुखनाम । " इंदंयुरिदं कामयमानः " सुखकामस्य | शं कामयत इंति शंयुः । शिवमैहिकं सुखम् । शग्ममामुष्मिक सुखम् । शंयोरिषभ्यासोऽत्यादरार्थः || २६॥ अभयं वोऽभयं मेऽस्तु ॥ २७ ॥ भाष्यम् – हेऽग्नयो मत्तः सकाशाद्वो युष्माकमभयमस्तु । युष्मत्सकाशान्ममाष्यभ यमस्त्विति ॥ २७ ॥ इति प्रवासोपस्थानमन्त्रभाष्यम् ।