पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | विपरिवृत्यान्योन्यवाससी विपर्ययेण वसानाविवेदानमिवां चरावः । अत ऊवं हे जात. वेदस्ते पूर्वोक्ते ना आवयोस्तन्वौ देवदत्तवह्न्यादिनामनी यथायथं त्वदीयं वह्न्यादि नाम तवैव मदीयं च देवदत्तादि नाम मदीयमव यथा भवति तथा बिभूवः परिदधाव है । एवं सति कुशलं जीवनं भवति । दक्षसे कुशलाय जीवसे जीवनायाऽऽयुर्वृद्धिधनादिसं- पत्त्या प्रशस्तजीवनं च भवति ॥ १७ ॥ ७८ अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नमभिसह आयच्छस्व ।। १८ ॥ भाष्यम् – प्रत्यागत आहवनीये समिधमादध्यात् । हे आहवनीय यं त्वामगन्माऽऽऽ गन्माऽऽगता वयम् । विश्ववेदसं सर्वतोधनम् । अस्मभ्यं षष्ठयर्थे चतुर्थ्यस्माकम् । वसुवित्तममतिशयेन धनस्य वेदितारम् । स त्वं हे भगवन्नने सम्राट् | राजू दीप्तौ । सम्यग्दीप्तिमन् । अभिद्युम्नं द्युम्नं द्योततेर्यशो वाऽन्नं वा द्युम्नं द्योततेर्यशो वाऽन्नं वा ” । इति निरुक्ते । अभिसहः । सह इति बलनाम निघण्टौ । आयच्छस्व । यमे- रेतद्रूपम् । एतदुक्तं भवति - अस्मानभ्यन्नं यशो वा बलं वा गृह्णीष्वाऽऽगमयेत्यर्थः । यद्वा–अस्मान्द्युम्नमभि बलं वाऽभियच्छस्त्र स्थापयस्व समर्पय आयच्छतिः स्थाप- नार्थः ॥ १८ ॥ <= अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व ॥ १९ ॥ भाष्यम् – योऽयमग्निगृहपतिर्गार्हपत्याख्यः प्रजायाञ्चातिशयेन धनस्य वेदिता तमेतं याचे । हेऽग्ने गृहपतिर्गृहस्य पतिः पालकः । शेषं पूर्ववत् ॥ १९ ॥ अयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभिद्युम्नमभिसह आयच्छस्व ॥ २० ॥ भाष्यम् –योऽयमग्निः पुरीष्यः पशव्यः “ पशवो वै पुरीषम् ” इति श्रुतिः । रयिमान्धनवान्पुष्ट॑र्वर्धयिता । तमेतं प्रत्यक्षीकृत्य याचे । हेऽमे पुरीष्य द्युम्नं बलं च प्रत्यस्मान्निधेहि ॥ २० ॥ इमान्मे मित्रावरुणौ ग्रहानगुपतं युवम् । अविनष्टानविहतान्पूनानभ्यराक्षीदाऽस्माकं पुनरायनात् ॥ २१ ॥ भाष्यम् – हे मित्रावरुणावादित्यवरुणौ युवं युवामजूगुपत क्षणः कृतवन्तः । तथा पूषा देवताऽविनष्टानविहृतानिमान्मे गृहानेना नेतानस्माकं पुनरायनात्पुनः, आ, आयनात्पु- नरागमनपर्यन्तमभ्यराक्षीद्रक्षणमकरोत् । तस्मात्रयाणां युष्माकमुफ्कृतीः स्मरामि ॥ २१ ॥