पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । पितुमानन्नवांश्चास्तु । हे देवा मध्वा माधुर्योपतेनोदकेनौषधी: संपिपृक्त संपर्चयत सेच- यतेत्यर्थः । हेऽग्ने त्वया सख्ये संजाते सति मे मम भगो धनं न मृध्या न विनश्यतु । किं च रायो धनस्य पुरुक्षोर्बह्नन्नस्य च सदनं स्थानमुदश्यां प्राप्नुयाम् ॥ १२ ॥ इहैव सन्तत्र सन्तं त्वाऽग्ने हृदा वाचा मनसा वा बिभर्मि । तिरो मा सन्तं मा महासीयोतिषा त्वा वैश्वानरेणोपतिष्ठते ॥ १३ ॥ ७७ भाष्यम्–हेऽग्न इहैव देशे सन्नहं तत्र तत्र गृहविशेषे सन्तं त्वामग्ने हृदा प्राणेन घाचा मनसा च बिभर्मिं धारयामि | ग्रामान्तरे गतस्यापि मम मनोवाक्प्राणादयो भव: द्विषयदेशवर्तित्वेन तिरोभूय सन्तमवस्थितं मा मां मा महासीर्मा परित्यजन्तु । वैश्वानरेण सर्वमनुष्य हितेन ज्योतिषा युक्तं त्वामुपतिष्ठत उपतिष्ठे सेव इत्यर्थः ॥ १३ ॥ अपि पन्थामगन्महि स्वस्ति गामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु । ( ऋ० ४।८ । १३ ) ॥ १४ ॥ भाष्यम् – पन्थां पन्थानं मार्गमप्यगन्महि अपि गताः प्राप्ताः स्मः । कीदृशम् । स्वस्ति गां सुखेन गन्तव्यमनेहसं पापरहितम् । येन पथा गच्छन्विश्वाः सर्वा द्विषो द्वेष्ट्रीः प्रजाः परिवृणक्ति परिवर्जयति बाधते वसु धनं च विन्दते लभते तादृशं पन्था- नमित्यर्थः ॥ १४ ॥ विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रति वेशा रिषाम ॥१५॥ भाष्यम् - - हेऽग्नेऽनातुरेण पीडारहितेन मनसा विश्वदानीं सर्वदा नित्यकालं ते स्वदर्थमाभरन्त आहरन्तः सन्तोऽत एवास्माकं वेशा निवासस्थानानि मा प्रतिरिषाम मा हिंसीः । त्वदर्थ समिदाद्याहरतोऽस्मान्परिपालयेत्यर्थः ॥ १५ ॥ नमस्ते अस्तु मीळुषे नमस्त उपसद्वने | अग्ने शुम्भस्व तन्वः सं मा रय्या सृज ॥ १६ ॥ भाष्यम् - - हेऽग्ने मी हळुषे धनप्रापकाय सुखरूपाय वा ते तुभ्यं नमोऽस्तु | नमस्त उपसद्वन उपसद्वते हेऽग्नेऽस्माकं तन्वः शरीराणि शुम्भस्व भासयस्व प्रकाशय । तथा च मा मां रय्या धनादिना संसृज संगमय । धनमृक्सामयजूरूपं नापयेत्यर्थः ॥१६॥ मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः । ते बिभ्रुवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेदः ॥१७॥ भाष्यम् - हे जातवेदो मम देवदत्तादि नाम तव च वयादि नामेत्येवं ये नामनी