पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ अग्निहोत्रचन्द्रिका | भाष्यम् – हे इन्द्र वयं गौपायनाः पथः समीचीनान्मार्गान्मा प्रगाम मा परागच्छाम । असमातिगृहमेत्र गच्छाम । मा च सोमिनोऽसमातेर्यज्ञात्प्रगाम | माऽस्थुर्मा तिष्ठन्तु नोऽ- स्माकमन्तर्मार्गमध्येऽरातयः शत्रवः । यद्वा सोमिनः सोमवतो यागान्मा प्रगाम ॥ ६ ॥ यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतं नशीमहि ॥ ७ ॥ भाष्यम्—योऽयमग्न्याख्यस्तन्तुराहवनीयादिरूपेण विस्तृतो यज्ञस्य प्रसाधनः प्रक- र्षेण साधयिता देवैः स्तोतृभिरृत्विग्भिविस्तारितो वर्तते वेद्यां तमाहुतं सर्वतोमानं नशीमहि प्राप्नुयाम । नशतिर्व्याप्तिकर्मा ॥ ७ ॥ ममो न्वाहुवामहे नाराशंसेन सोमेन | पितॄणां च मन्मभिः ॥ ८ ॥ - भाष्यम् – वयं बन्धुश्रुतबन्ध्वादयो मनः सुबन्धोः संबन्धि मायाविभिरपहृतं नु क्षिप्रमा- हुवामहे । केन साधनेनेति तदुच्यते । नाराशंसेन नराशंसचमसगतेन सोमेन | नरैः शस्यन्त इति नराशंसाः पितरः । तेषां चमसानां कम्पनमेव होमः । तथाविधेन सोमेन पितॄणा- मङ्गिरसां मन्मभिर्मननीयैः स्तोत्रैश्च ॥ ८ ॥ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे | ज्योकूच सूर्य दृशे ॥ ९ ॥ भाष्यम्—हे सुबन्धो ते मनः पुनरैत्वभिचरतः सकाशात्पुनरागच्छतु । किमर्थ मित्युच्यते । क्रत्वे कर्मणे लौकिक वैदिक विषयाय दक्षाय बलाय च । यद्वा क्रत्वे दक्षाय प्राणाय प्राणो वै दक्षोऽपानः क्रतुरिति श्रुतिः । जीवसे जीवनाय च । ज्योक्च चिर- कालं सूर्यं दृशे सूर्यं द्रष्टुमसन्तं चिरजीवनायेत्यर्थः ॥ ९ ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ १० ॥ भाष्यम्-~~-नोऽस्माकं पितरः पितृभूता अङ्गिरसस्तेषां जनः संघ इत्यर्थः । स च जीवं नातं प्राणादीन्द्रियसंघातं पुनर्ददातु । तथा दैव्यो जनः । जनशब्दः संघवचनः । देवानां संघोऽपि जीवं नातं च ददातु । वयं च तदुभयं सचेमहि प्राप्नुयाम ॥ १० ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः | प्रजावन्तः सचेमहि ॥ ११ ॥ भाष्यम् – हे सोमदेव वयं बन्ध्वादयस्तव व्रते त्वदीये कर्मणि । व्रतमिति कर्मनाम । तव तनूषु त्वदीयेष्वङ्गेषु च मनो विनतस्तात्पर्ययुक्तां बुद्धिं धारयन्तः प्रजावन्तः प्रजाभिः पुत्रपौत्रादिभिर्युक्ताः सचेमहि संगच्छेमहि । जीवं नातं चेति शेषः ॥ ११ ॥ । सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः संपिवृक्त | भगो मे अग्ने सख्येन मृध्या उद्गायो अश्यां सदनं पुरुक्षोः ॥ ( ऋ० ३ | ३ | २७ ) ॥ १२ ॥ भाष्यम् --- हेऽमेऽस्माकं पन्था मार्ग: सदा सर्वदा सुगः सुखेन गन्तुं शक्यः