पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | प्रवासोपस्थानमन्त्रभाष्यम् | शंस्य पशून्मे पाहि ॥ १ ॥ भाष्यम् – हे शंस्य ऋत्विग्भिः प्रशंसनीयरूपत्वाच्छंस्य आहवनीयस्तत्संबुद्धिः । मे मम पशून्पाहि रक्ष । शंसु स्तुततॊ ॥ १ ॥ नर्य प्र॒जां मे पाहिं ॥ २ ॥ अथ ७५ भाष्यम् – नर्य नरेभ्यो मनुष्येभ्यो हितो मार्हपत्यस्तत्संबुद्धिः । मे मम प्रजां पाहि गोपाय ॥ २ ॥ अथर्व पितुं मे पाहि ॥ ३ ॥ भाष्यम्-हेऽथर्व चतुर्वेदप्रवर्तकाचार्य रूप दक्षिणाने पितुं पालक मे मम प्राणं पाहि रक्ष । अत्राथर्थशब्दनुवटमहीधरावेवं व्याचख्यतुः- अथर्वाऽतनवानथर्वः “ अत सातत्यगमने " सततं हि दक्षिणाग्निर्गार्हपत्यस्थानं गच्छति । अथर्व इति वाजसनेयिनः समामनन्ति । निरुक्तकारस्त्वेवं निरुक्तयांबभूव - अथर्वाणोऽथनवन्तः । थर्वतिश्चरतिकर्मा तत्म- तिषेधः ॥ ३ ॥ इमान्मे मित्रावरुण गृहान्गोपायतं युवम् । अविनष्टानविहृतान्पूनानभिरक्षत्वस्माकं पुनरायनात् ॥ ४ ॥ भाष्यम् – हे मित्रावरुणा एतन्नामकौ देवौ युवं युवां म इमान्संनिकृष्टान्गृहाञ्शालां गोपायतं रक्षतम् । किं चास्माकं पुनरायनान्मम यावत्पुनरागमनं तावद्यथाऽविनष्टाः केनाप्यविहृताः पशवः स्युस्तथैनान्पशून्पूषा फलयित्री देवता रक्षतु ॥ ४ ॥ मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे | तत्त्वं चिभृहि पुनरा ममैतोस्तवाहं नाम बिभराण्यग्ने ॥ ५॥ भाष्यम् – ब्राह्मणस्य नामद्वयं विद्यते । देवदत्तयज्ञदत्तादिकमेकमुपाध्यायदीक्षितादि- कमपरम् । अत एव श्रूयते - " तस्माविनामा ब्राह्मणोऽदकः " इति । तत्राध्यापनादेरूवं प्रवृत्तत्वादुपाध्यायादिकं चरमम् । अग्रे जन्मकाले मातापितृभ्यां कृतत्वाद्देवदत्तादिकं प्रथमम् । हे जातवेदो मम यत्प्रथमं नाम तत्त्वं धारय । किन्तं कालम् । पुनरा ममैतो- रस्मदीयपुनरागमनात् । अहमपि तव नाम धारयाणि । त्वमत्र वैकल्यं निर्हरन्मदीयं कार्यं कुरु | त्वन्नामधारिणो मम गन्तव्यदेशे वैकल्यमेव न संभवतीत्यर्थः ॥ ५ ॥ मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुन अरातयः ( ऋ० ८ । १ । १९ ) ॥ ६॥