पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । अथ समारोपप्रयोगमन्त्रभाष्यम् | अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जाननग्न आसीदाथा नो वर्धया गिरः | ( ऋ० सं ३|१|३३) ॥ १ ॥ भाष्यम् – हेऽग्नेऽयं गार्हपत्यप्रदेशस्ते योनिस्तव स्थानम् । स च योनिरृत्विय ऋतुसंबन्धात्सर्वस्मिन्नप्यृतावनेन होमनिष्पत्तेः । यतो गार्हपत्यप्रदेशाज्जात उद्भूतस्त्वमरोचथा दीप्यसे तं प्रदेशं जानन्मम स्थानमित्यवगच्छन्नासीद प्रतितिष्ठ | अनन्तरमस्माकं गिरो वार्णांवर्धयेत्यर्थः ः । अथवा–यतो यस्मादरणिस्थानाज्जात उत्पन्न: सन्दीप्यसे तमरणिप्रदेशं स्थानभूतं जानंस्तत्रारण्योरासीदेति ॥ १ ॥ या ते अग्ने यज्ञिया तनूस्तयेयारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमानः ॥ २ ॥ भाष्यम्–हेऽग्ने ते तव यज्ञिया तनूर्यज्ञयोग्या या तनूस्तया तन्वा सहेहाऽऽगच्छ । 'आगत्य चाऽऽत्मानमारोह | त्वं मदीयात्मा सन्मच्छरीरमारोह । किं कुर्वन् ( अस्माकम् ) नर्या नरस्य योग्यानि बसूनि धनानि पुरूणि बहून्यच्छाऽभिमुखानि कृण्वंस्त्वं यज्ञस्व रूपो भूत्वा यज्ञनिर्वाहकं मद्देहं योनिं स्वं स्थानमासीद प्राप्नुहि । हे जातवेदो भुवः सका- शादाभिमुख्येन जायमानस्त्वं स्वां योनिमाप्नुहीत्यर्थः ॥ २॥ प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । मजां पुष्टिं रयिमस्मास घेह्यथा भव यजमानाय शं योः ॥ ३ ॥ भाष्यम्–हे आतबेदः पुनरपि त्वं प्रत्यवरोहारण्योः सकाशाद्भूमाववतर । अवतीर्य च प्रजानन्नस्य देवस्येदं हविरिति प्रकर्षेण जानन्नोऽस्मदीयं हव्यं देत्रेभ्यो वह प्रापय । प्रजा- दिकमस्मासु संपादय । अथानन्तरं यजमानाय स्वस्तिकरो भव | सर्वथा यजमानसहिता- नामस्माकं स्वस्ति कुर्वित्यर्थः ॥ ३ ॥ इति समारोपप्रयोगमन्त्रभ।ष्यम् ।